!doctype html> भज गोविन्दम्, भज गोविन्दम् - भजन (Bhaja Govindam, Bhaja Govindam) Lyrics — Vrinda Ke Geet
Bhaja Govindam, Bhaja Govindam — भज गोविन्दम्, भज गोविन्दम् - भजन devotional song
Krishna भजन

भज गोविन्दम्, भज गोविन्दम् - भजन

Bhaja Govindam, Bhaja Govindam

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

भज गोविन्दम् भज गोविन्दम्,

गोविन्दं भज मूढ़मते।

संप्राप्ते सन्निहिते काले,

न हि न हि रक्षति डुकृञ् करणे॥१॥मूढ़ जहीहि धनागमतृष्णाम्,

कुरु सद्बुद्धिमं मनसि वितृष्णाम्।

यल्लभसे निजकर्मोपात्तम्,

वित्तं तेन विनोदय चित्तं॥२॥

नारीस्तनभरनाभीदेशम्,

दृष्ट्वा मागा मोहावेशम्।

एतन्मान्सवसादिविकारम्,

मनसि विचिन्तय वारं वारम्॥३॥

नलिनीदलगतजलमतितरलम्, तद्वज्जीवितमतिशयचपलम्।

विद्धि व्याध्यभिमानग्रस्तं,

लोक शोकहतं च समस्तम्॥४॥

यावद्वित्तोपार्जनसक्त:,

तावन्निजपरिवारो रक्तः।

पश्चाज्जीवति जर्जरदेहे,

वार्तां कोऽपि न पृच्छति गेहे॥५॥

यावत्पवनो निवसति देहे,

तावत् पृच्छति कुशलं गेहे।

गतवति वायौ देहापाये,

भार्या बिभ्यति तस्मिन्काये॥६॥

बालस्तावत् क्रीडासक्तः,

तरुणस्तावत् तरुणीसक्तः।

वृद्धस्तावच्चिन्तासक्तः,

परे ब्रह्मणि कोऽपि न सक्तः॥७॥

का ते कांता कस्ते पुत्रः,

संसारोऽयमतीव विचित्रः।

कस्य त्वं वा कुत अयातः,

तत्त्वं चिन्तय तदिह भ्रातः॥८॥

सत्संगत्वे निस्संगत्वं,

निस्संगत्वे निर्मोहत्वं।

निर्मोहत्वे निश्चलतत्त्वं

निश्चलतत्त्वे जीवन्मुक्तिः॥९॥

व यसि गते कः कामविकारः,

शुष्के नीरे कः कासारः।

क्षीणे वित्ते कः परिवारः,

ज्ञाते तत्त्वे कः संसारः॥१०॥

मा कुरु धनजनयौवनगर्वं,

हरति निमेषात्कालः सर्वं।

मायामयमिदमखिलम् हित्वा,

ब्रह्मपदम् त्वं प्रविश विदित्वा॥११॥

दिनयामिन्यौ सायं प्रातः,

शिशिरवसन्तौ पुनरायातः।

कालः क्रीडति गच्छत्यायुस्तदपि

न मुन्च्त्याशावायुः॥१२॥

द्वादशमंजरिकाभिरशेषः

कथितो वैयाकरणस्यैषः।

उपदेशोऽभूद्विद्यानिपुणैः, श्रीमच्छंकरभगवच्चरणैः॥१२अ॥

काते कान्ता धन गतचिन्ता,

वातुल किं तव नास्ति नियन्ता।

त्रिजगति सज्जनसं गतिरैका,

भवति भवार्णवतरणे नौका॥१३॥

जटिलो मुण्डी लुञ्छितकेशः, काषायाम्बरबहुकृतवेषः।

पश्यन्नपि च न पश्यति मूढः,

उदरनिमित्तं बहुकृतवेषः॥१४॥

अङ्गं गलितं पलितं मुण्डं,

दशनविहीनं जतं तुण्डम्।

वृद्धो याति गृहीत्वा दण्डं,

तदपि न मुञ्चत्याशापिण्डम्॥१५॥

अग्रे वह्निः पृष्ठेभानुः,

रात्रौ चुबुकसमर्पितजानुः।

करतलभिक्षस्तरुतलवासः,

तदपि न मुञ्चत्याशापाशः॥१६॥

कुरुते गङ्गासागरगमनं,

व्रतपरिपालनमथवा दानम्।

ज्ञानविहिनः सर्वमतेन,

मुक्तिं न भजति जन्मशतेन॥१७॥

सुर मंदिर तरु मूल निवासः,

शय्या भूतल मजिनं वासः।

सर्व परिग्रह भोग त्यागः,

कस्य सुखं न करोति विरागः॥१८॥

योगरतो वाभोगरतोवा,

सङ्गरतो वा सङ्गवीहिनः।

यस्य ब्रह्मणि रमते चित्तं,

नन्दति नन्दति नन्दत्येव॥१९॥

भगवद् गीता किञ्चिदधीता,

गङ्गा जललव कणिकापीता।

सकृदपि येन मुरारि समर्चा,

क्रियते तस्य यमेन न चर्चा॥२०॥

पुनरपि जननं पुनरपि मरणं,

पुनरपि जननी जठरे शयनम्।

इह संसारे बहुदुस्तारे,

कृपयाऽपारे पाहि मुरारे॥२१॥

रथ्या चर्पट विरचित कन्थः,

पुण्यापुण्य विवर्जित पन्थः।

योगी योगनियोजित चित्तो,

रमते बालोन्मत्तवदेव॥२२॥

कस्त्वं कोऽहं कुत आयातः,

का मे जननी को मे तातः।

इति परिभावय सर्वमसारम्,

विश्वं त्यक्त्वा स्वप्न विचारम्॥२३॥

त्वयि मयि चान्यत्रैको विष्णुः,

व्यर्थं कुप्यसि मय्यसहिष्णुः।

भव समचित्तः सर्वत्र त्वं,

वाञ्छस्यचिराद्यदि विष्णुत्वम्॥२४॥

शत्रौ मित्रे पुत्रे बन्धौ,

मा कुरु यत्नं विग्रहसन्धौ।

सर्वस्मिन्नपि पश्यात्मानं,

सर्वत्रोत्सृज भेदाज्ञानम्॥२५॥

कामं क्रोधं लोभं मोहं,

त्यक्त्वाऽत्मानं भावय कोऽहम्।

आत्मज्ञान विहीना मूढाः,

ते पच्यन्ते नरकनिगूढाः॥२६॥

गेयं गीता नाम सहस्रं,

ध्येयं श्रीपति रूपमजस्रम्।

नेयं सज्जन सङ्गे चित्तं,

देयं दीनजनाय च वित्तम्॥२७॥

सुखतः क्रियते रामाभोगः,

पश्चाद्धन्त शरीरे रोगः।

यद्यपि लोके मरणं शरणं,

तदपि न मुञ्चति पापाचरणम्॥२८॥

अर्थंमनर्थम् भावय नित्यं,

नास्ति ततः सुखलेशः सत्यम्।

पुत्रादपि धनभजाम् भीतिः,

सर्वत्रैषा विहिता रीतिः॥२९॥

प्राणायामं प्रत्याहारं,

नित्यानित्य विवेकविचारम्।

जाप्यसमेत समाधिविधानं,

कुर्ववधानं महदवधानम्॥३०॥

गुरुचरणाम्बुज निर्भर भक्तः, संसारादचिराद्भव मुक्तः।

सेन्द्रियमानस नियमादेवं,

द्रक्ष्यसि निज हृदयस्थं देवम्॥३१॥

मूढः कश्चन वैयाकरणो,

डुकृञ्करणाध्ययन धुरिणः।

श्रीमच्छम्कर भगवच्छिष्यै,

बोधित आसिच्छोधितकरणः॥३२॥

भजगोविन्दं भजगोविन्दं,

गोविन्दं भजमूढमते।

नामस्मरणादन्यमुपायं,

नहि पश्यामो भवतरणे॥३३॥

  • श्री शङ्कराचार्य कृतं

| | | | | | | |

Transliteration

Bhaja Govindam, Bhaja Govindam,

Govindam Bhaja Mooda Mathe,

Samprapthe Sannihithe Kale,

Nahi Nahi Rakshathi Dookrunj Karane

| | | | | | | |

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Watch on YouTube

Song Details

Category
krishna
Type
bhajan
Published
21 जून 2026
Tags
krishna bhajan

Download Lyrics