!doctype html> भ्रमर गीत (Bhramar Geet) Lyrics — Vrinda Ke Geet
Bhramar Geet — भ्रमर गीत devotional song
Ram भजन

भ्रमर गीत

Bhramar Geet

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

श्रीमद भागवत के अन्तर्गत आने वाले गोपियों के पञ्च प्रेम गीत (, , , और भ्रमर गीत) इनमें से भ्रमर गीत का वर्णन इस प्रकार है।

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती

कृष्णसङ्गमम् प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११ ॥गोप्युवाच

मधुप कितवबन्धो मा स्पृशङ्घ्रिं

सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः

वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि

विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२ ॥

सकृदधरसुधां स्वां मोहिनीं

पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक्

परिचरति कथं तत्पादपद्मं नु पद्मा ह्यपि

बत हृतचेता ह्युत्तमःश्लोकजल्पैः ॥ १३ ॥

किमिह बहु षडङ्घ्रे गायसि त्वं

यदूनाम् अधिपतिमगृहाणामग्रतो नः पुराणम्

विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते

कल्पयन्तीष्टमिष्टाः ॥ १४ ॥

दिवि भुवि च रसायां काः

स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः

चरणरज उपास्ते यस्य भूतिर्वयं का अपि

च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५ ॥

विसृज शिरसि पादं वेद्म्यहं

चाटुकारैर् अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्

स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः

किं नु सन्धेयमस्मिन् ॥ १६ ॥

मृगयुरिव कपीन्द्रं विव्यधे

लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्

बलिमपि

बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस् तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७ ॥

यदनुचरितलीलाकर्णपीयूषविप्रुट् सकृददनविधूतद्वन्द्वधर्मा

विनष्टाः

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना

बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८ ॥

वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र स्मररुज

उपमन्त्रिन्भण्यतामन्यवार्ता ॥ १९ ॥

प्रियसख पुनरागाः प्रेयसा प्रेषितः

किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग

नयसि

कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २० ॥

अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते

स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्

क्वचिदपि स कथा नः किङ्करीणां

गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ २१ ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Watch on YouTube

Song Details

Category
ram
Type
bhajan
Published
21 जून 2026
Tags
ram bhajan

Download Lyrics