!doctype html> Stotraश्री सरस्वती रहस्य स्तोत्रम् (Saraswati Rahasya) Lyrics — Vrinda Ke Geet
🪷
Aarti स्तोत्रम्

Stotraश्री सरस्वती रहस्य स्तोत्रम्

Saraswati Rahasya

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Saraswati Rahasya Stotra

श्री सरस्वती रहस्य स्तोत्रम्

श्री सरस्वती रहस्य स्तोत्रम् हिंदी पाठ

Saraswati

Rahasya Stotra in Hindi

नीहारहारघनसारसुधाकराभां

कल्याणदां कनकचम्पकदामभूषाम् ।

उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं

नमामि मनसा वचसा विभूत्यै ॥ १ ॥

या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी ।

नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥ २ ॥

या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते ।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ३ ॥

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।

अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ ४ ॥

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।

प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥ ५ ॥

अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।

रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ ६ ॥

या प्रत्यग्दृष्टिभिर्जीवैर्व्यजमानानुभूयते ।

व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ ७ ॥

नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।

निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥ ८ ॥

व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।

सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥ ९ ॥

यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।

योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १० ॥

नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः ।

ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ११ ॥

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १२ ॥

नमस्ते शारदे देवि काश्मीरपुरवासिनि ।

त्वामहं प्रार्थये नित्यं  विद्यादानं च देहि मे ॥ १३ ॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।

मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ १४ ॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।

महासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम् ॥ १५ ॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।

भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ १६ ॥

नमामि यामिनीनाथलेखालंकृतकुन्तलां ।

भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ १७ ॥

यः कवित्वं निरातन्कं भुक्तिमुक्ती च वाञ्छति ।

सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ १८ ॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीं ।

भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ १९ ॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।

गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ॥ २० ॥

॥ इति श्री सरस्वती रहस्य स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
aarti
Type
strotram
Published
21 जून 2026
Tags
aarti strotram

Download Lyrics