!doctype html> Stotraषोडशी हृदय स्तोत्र (Shodashi Hridaya) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotraषोडशी हृदय स्तोत्र

Shodashi Hridaya

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shodashi Hridaya Stotra

षोडशी हृदय स्तोत्र

षोडशी हृदय स्तोत्र हिंदी पाठ

Shodashi Hridaya Stotra in Hindi

॥ अथ श्रीषोडशीहृदयप्रारम्भः ॥

कैलासे करुणाक्रान्ता परोपकृतिमानसा

पप्रच्छ करुणासिन्धुं सुप्रसन्नं महेश्वरम् ॥ १ ॥

॥ श्रीपार्वत्युवाच ॥

आगामिनि कलौ ब्रह्मन् धर्मकर्मविवर्जिताः ।

भविष्यन्ति जनास्तेषां कथं श्रेयो भविष्यति ॥ २ ॥

॥ श्रीशिव उवाच ॥

श्रृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि ।

दुर्लभं त्रिषु लोकेषु सुन्दरीहृदयस्तवम् ॥ ३ ॥

ये नरा दुःखसन्तप्ता दारिद्रयहतमानसाः ।

अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति ॥ ४ ॥

॥ विनियोगः ॥

ॐ अस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य आनन्दभैरव ऋषिः ।

देवी गायत्री छन्दः । श्रीमहात्रिपुरसुन्दरी देवता। ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।

धर्मार्थकाममोक्षार्थे जपे (पाठे) विनियोगः ।

॥ अथ ऋष्यादिन्यासः ॥

ॐ आनन्दभैरवऋषये नमः शिरसि ।

देवी गायत्री छन्दसे नमः मुखे ।

श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये ।

ऐं बीजाय नमः नाभौ ।

सौः शक्तये नमः स्वाधिष्ठाने ।

क्लीं कीलकाय नमः मूलाधारे ।

विनियोगाय नमः पादयोः ॥

॥ अथ करन्यासः ॥

ऐं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।

क्लीं श्रीं सौः ऐं तर्जनीभ्यां नमः ।

सौः ॐ ह्रीं श्रीं मध्यमाभ्यां नमः ।

ऐं कएलह्रीं हसकलह्रीं अनामिकाभ्यां नमः ।

क्लीं सकल कनिष्ठिकाभ्यां नमः ।

सौः सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ।

॥ अथ हृदयादिषडङ्गन्यासः ॥

ऐं ह्रीं क्लीं हदयाय नमः ।

क्लीं श्रीं सौः ऐं शिरसे स्वाहा ।

सौः ॐ ह्रीं श्रीं शिखायै वषट् ।

ऐं कएलह्रीं हसकलह्रीं कवचाय हुम् ।

क्लीं सकल नेत्रत्रयाय वौषट् ।

सौः सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥

॥ अथ ध्यानम् ॥

बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती-

मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।

पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां

भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥ ५ ॥

॥ श्री षोडशी ललितात्रिपुरसुन्दरी हृदय स्तोत्रम् ॥

सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिभृत् ।

कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥ ६ ॥

शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता ।

सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥ ७ ॥

या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता ।

तां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान्सुदुर्जयान् ॥ ८ ॥

योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् ।

जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम् ॥ ९ ॥

कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका ।

कौलिकालिकलितान्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥ १० ॥

बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान्

दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् ।

दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां

देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥ ११ ॥

धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां

घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्दप्रभाभाम् ।

धर्म्यान्धूतोपहारान्धरणिसुरधवोद्धारिणीं ध्येयरूपां

धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥ १२ ॥

जयतु जयतु जल्पा योगिनी योगयुक्ता

जयतु जयतु सौम्या सुन्दरी सुन्दरास्या ।

जयतु जयतु पद्मा पद्मिनी केशवस्य

जयतु जयतु काली कालिनी कालकान्ता ॥ १३ ॥

जयतु जयतु खर्वा षोडशी वेदहस्ता

जयतु जयतु धात्री धर्मिणी धातृशान्तिः ।

जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या

जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥ १४ ॥

देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा

रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा ।

भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा

एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥ १५ ॥

सुमलशमनमेतद्देवि गोप्यं गुणज्ञे

ग्रहणमननयोग्यं षोडशीयं खलघ्नम् ।

सुरतरुसमशीलं सम्प्रदं पाठकानां

प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥ १६ ॥

इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् ।

यः श्रृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥ १७ ॥

न शूद्राय प्रदातव्यं शठाय मलिनात्मने ।

देयं दान्ताय भक्ताय ब्राह्मणाय विशेषतः ॥ १८ ॥

॥ इति षोडशी हृदय स्तोत्र सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics