!doctype html> Stotraश्री भगवच्छरण स्तोत्र (Shri Bhagavachharana) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotraश्री भगवच्छरण स्तोत्र

Shri Bhagavachharana

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Bhagavachharana Stotra

श्री भगवच्छरण स्तोत्र

श्री भगवच्छरण स्तोत्र हिंदी पाठ

Shri

Bhagavachharana

Stotra in Hindi

सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे ।

मायानिर्मितविश्वाय महेशाय नमो नम: ।। 1 ।।

रोगा हरन्ति सततं प्रबला: शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।

मृत्युश्च नृत्यति सदा कलयन् दिनानि तस्मात्त्वमध शरणं मम दीनबन्धो ।। 2 ।।

देहो विनश्यति सदा परिणामशीलश्चित्तं च खिधति सदा विषयानुरागि ।

बुद्धि: सदा हि रमते विषयेषु नान्तस्तस्मात् ।। 3 ।।

आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्री: ।

वृद्धा प्रधावति यथा मृगराजपत्नी । तस्मात् ।। 4 ।।

आयाद्व्ययो मम भवत्यधिकोऽविनीते कामादयो हि बलिनो निबला: शमाधा: ।

मृत्युर्यदा तुदति मां बत किं वदेयं । तस्मात् ।। 5 ।।

तप्तं तपो न हि कदापि मयेह तन्वा वाण्या तथा न हि कदापि तपश्च तप्तम् ।

मिथ्याभिभाषणपरेण न मानसं हि । तस्मात् ।। 6 ।।

स्तब्धं मनो मम सदा न हि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् ।

वाचा तथैव न वदेन्मम सौम्यवाणीं । तस्मात् ।। 7 ।।

सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तथा कथमहो शुभकर्मवार्ता ।

साक्षात्परम्परतया सुखसाधनं तत्तस्मात ।। 8 ।।

पूजा कृता न हि कदापि मया त्वदीया मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा ।

चित्तं न मे स्मरति ते चरणौ ह्रावाप्य । तस्मात् ।। 9 ।।

यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो ज्ञानस्य साधनगणो न विवेकमुख्य: ।

ज्ञानं क्व साधनगणेन विना क्व मोक्षस्तस्मात् ।। 10 ।।

सत्संगतिर्हि विदिता तव भक्तिहेतु: साप्यद्य नास्ति बत पण्डितमानिनो मे ।

तामन्तरेण न हि सा क्व च बोधवार्ता । तस्मात् ।। 11 ।।

दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं विषयीकरोति ।

शान्ति: कुतो मम भवेत्समता न चेत्स्यात्तस्मात् ।। 12 ।।

मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करुणा मुदिता च पुण्ये ।

पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात् ।। 13 ।।

नेत्रादिकं मम बहिर्विषयेषु सक्तं नान्तर्मुखं भवति तानविहाय तस्य ।

क्वांतर्मुखत्वमपहाय सुखस्य वार्ता । तस्मात् ।। 14 ।।

त्यक्तं गृहा द्यपि मया भवतापशान्त्यै नासीदसौ ह्रतह्रदो मम मायया ते ।

सा चाधुना किमु विधास्यति नेति जाने । तस्मात् ।। 15 ।।

प्राप्ता धनं ग्रहकुटुंबगजाश्वदारा राज्यं यदैहिकमठेन्द्रपुरश्च नाथ ।

सर्वं विनश्वरमिदं न फलाय कस्मै । तस्मात ।। 16 ।।

प्राणान्निरुध्य विधिना न कृतो हि योगो योगं विनास्ति मनस: स्थिरता कुतो मे ।

तां वै विना मम न चेतसि शान्तिवार्ता । तस्मात् ।। 17 ।।

ज्ञानं यथा मम भवेत्क्रपया गुरुणां सेवां तथा न विधिनाकरवं हि तेषाम् ।

सेवापि साधनतयाविदितास्ति चित्ते । तस्मात् ।। 18 ।।

तीर्थादिसेवनमहो विधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।

शुद्धिं विना न मनसोऽवगमापवर्गौ । तस्मात् ।। 19 ।।

वेदांतशीलनमपि प्रमितिं करोति ब्रह्मात्मन: प्रमितिसाधनसंयुतस्य ।

नैवास्ति साधनलवो मयि नाथ तस्यास्तस्मात् ।। 20 ।।

गोविन्द शंकर हरे गिरिजेश मेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब ।

नान्या गतिर्मम कथञ्चन वां विहाय तस्मात्प्रभो मम गति: कृपया विधेया ।। 21 ।।

एवं स्तवं भगवदाश्रयणाभिधानं य मानवा: प्रतिदिनं प्रणता: पठन्ति ।

ते मानवा: भवरतिं परिभूय शान्तिं गच्छन्ति किं च परमात्मनि भक्तिमद्धा ।। 22 ।।

।। इति श्री भगवच्छरण स्तोत्र सम्पूर्णम् ।।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics