!doctype html> Stotramश्री कृष्णलीला वर्णन स्तोत्रम् (Shri Krishna-Leela Varnana) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotramश्री कृष्णलीला वर्णन स्तोत्रम्

Shri Krishna-Leela Varnana

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Krishna-Leela Varnana Stotram

श्री कृष्णलीला वर्णन स्तोत्रम्

श्री कृष्णलीला वर्णन स्तोत्रम् हिंदी पाठ

Shri Krishna-Leela

Varnana Stotram in Hindi

भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां,

भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं ।

देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा,

देवक्या: सुकृताङ्कुरः सुरभयन् कृष्णोऽनिशं पातु वः ॥ १ ॥

जातः कंसभयाद् व्रजं गमितवान् पित्रा शिशु: शौरिणा,

साकं पूतनया तथैव शकटं वात्यासुरं चार्दयन् ।

मात्रे विश्वमिदं प्रदर्श्य वदने निर्मूलयन्नर्जुनौ,

निघ्नन् वत्सबकाघनामदितिजान् कृष्णोऽनिशम् पातु वः ॥ २ ॥

ब्रह्माणं भ्रमयंश्च धेनुकरिपुर्निर्मर्दयन् काळियं,

पीत्वाग्निं स्वजनौघघस्मरशिखम् निघ्नन् प्रलम्बासुरम् ।

गोपीनां वसनं  हरन्द्विजकुलस्त्रीणां च मुक्तिप्रदो,

देवेन्द्रं दमयन्करेण गिरिधृक् कृष्णोऽनिशं पातु वः ॥ ३ ॥

इन्द्रेणाशुकृताभिषेक उदधेर्नन्दं तथा पालयन्,

क्रीडन् गोपनितम्बिनीभिरहितो नन्दस्य मुक्तिं दिशन् ।

गोपी-हारक–शङ्खचूड मदहृन्निघ्नन्नरिष्टासुरं,

केशिव्योमनिशाचरौ  च बलिनौ कृष्णोऽनिशम् पातु वः ॥ ४ ॥

अक्रूराय निदर्शयन्निजवपुर्निर्णेजकं चूर्णयन्,

कुब्जां सुन्दर-रूपिणीं विरचयन् कोदण्डमाखण्डयन् ।

मत्तेभम् विनिपात्य दन्तयुगलीं उत्पाटयन्मुष्टिभिः,

चाणूरं सहमुष्टिकं विदलयन्कृष्णोऽनिशं पातु वः ॥ ५ ॥

नीत्वा मल्लमहासुरान् यमपुरीं निर्वर्ण्य दुर्वादिनं,

कंसं मञ्चगतं निपात्य तरसा पञ्चत्वमापादयन् ।

तातं मातरमुग्रसेनमचिरान्निर्मोचयन्बन्धनात्,

राज्यं तस्य दिशन्नुपासितगुरुः कृष्णोऽनिशं पातु वः ॥ ६ ॥

हत्वा पञ्चजनं मृतं च गुरवे दत्वा सुतं मागधं,

जित्वा तौ च सृगालकालयवनौ हत्वा च निर्मोक्षयन् ।

पातालं मुचुकुन्दमाशु महिषीरष्टौ स्पृशन् पाणिना,

तं हंसं डिभकं निपात्य मुदितः कृष्णोऽनिशं पातु वः ॥ ७ ॥

घण्टाकर्णगतिं वितीर्य कलधौताद्रौ गिरीशाद्वरं,

विन्दन्नङ्गजमात्मजं च जनयन्निष्प्राणयन्पौण्ड्रकम् ।

दग्द्ध्वा काशिपुरीं स्यमन्तकमणिं कीर्त्या स्वयं भूषयन्,

कुर्वाणः शतधन्वनोऽपि निधनं कृष्णोऽनिशं पातु वः ॥ ८ ॥

भिन्दानश्च मुरासुरं च नरकं धात्रीं नयन्स्वस्तरुं,

षट्साहस्रयुतायुतं परिणयन्नुत्पादयन्नात्मजान् ।

पार्थेनैव च खण्डवाख्यविपिनं निर्द्दाहयन्मोचयन्,

भूपान्बन्धनतश्च चेदिपरिपुः कृष्णोऽनिशं पातु वः ॥ ९ ॥

कौन्तेयेन च कारयन्क्रतुवरं सौभं च निघ्नन्नृगं,

खातादाशु विमोचयंश्च  द्विविदं निष्पीडयन्वानरम् ।

छित्वा बाणभुजान् मृधे च गिरिशं जित्वा गणैरन्वितं,

दत्वा वत्कलमन्तकाय मुदितः कृष्णोऽनिशं पातु वः ॥ १० ॥

कौन्तेयैरुपसंहरन्वसुमतीभारं कुचेलोदयं,

कुर्वाणोपि च रुग्मिणं विदलयन्संतोषयन्नारदम् ।

विप्रायाशु समर्पयन्मृतसुतान्कालिङ्गकं कालयन्,

मातुः षट्तनयान्प्रदर्श्य सुखयन् कृष्णोऽनिशं पातु वः ॥ ११ ॥

अद्धा बुद्धिमदुद्धवाय विमलज्ञानं मुदैवादिशन्,

नानानाकिनिकायचारणगणैरुद्बोधितात्मा स्वयम् ।

मायां मोहमयीं विधाय विततां उन्मूलयन्स्वं कुलं,

देहं चापि पयस्समुद्रवसतिः कृष्णोऽनिशं पातु वः ॥ १२ ॥

कृष्णाङ्घ्रिद्वयभक्तिमात्रविगळत्सारस्वतश्लाघकैः,

श्लोकैर्द्वादशभिः समस्तचरितं संक्षिप्य सम्पादितम् ।

स्तोत्रं कृष्णकृतावतारविषयं सम्यक्पठन्  मानुषो,

विन्दन्कीर्तिमरोगतां च कवितां विष्णोः पदं यास्यति ॥ १२ ॥

॥ इति श्री कृष्णलीला वर्णन स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics