!doctype html> Stotraश्री राज मातंगी स्तोत्र (Shri Raj Matangi) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotraश्री राज मातंगी स्तोत्र

Shri Raj Matangi

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Raj Matangi Stotra

श्री राज मातंगी स्तोत्र

श्री राज मातंगी स्तोत्र हिंदी पाठ

Shri Raj Matangi Stotra in Hindi

मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं

कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम्

ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां ।

शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १ ॥

मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः

मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।

श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः

देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २ ॥

जयदेवि विशालाक्षि जय सर्वेश्वरि जय ।

जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३ ॥

महाविश्वेश दयिते जय ब्रह्मादि पूजिते ।

पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४ ॥

जयमातर्महाकृष्णे जय नीलोत्पलप्रभे ।

मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५ ॥

जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।

सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६ ॥

सर्वापदां नाशकरीं सर्वदारिद्र्यनाशिनीम् ।

नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७ ॥

नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।

नमस्तुभ्यं महावाणि महालक्ष्मि नमोऽस्तुते ॥ ८ ॥

महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।

एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९ ॥

सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।

विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १० ॥

राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।

दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११ ॥

महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् ।

अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२ ॥

लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् ।

अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३ ॥

॥ इति श्री राज मातंगी स्तोत्र सपूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics