!doctype html> Stotramश्रीकृष्ण मानस पूजा स्तोत्रम् (Sri Krishna Manasa Puja) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotramश्रीकृष्ण मानस पूजा स्तोत्रम्

Sri Krishna Manasa Puja

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Krishna Manasa Puja Stotram

श्रीकृष्ण मानस पूजा स्तोत्रम्

श्रीकृष्ण मानस पूजा स्तोत्रम् हिंदी पाठ

Sri Krishna Manasa Puja

Stotram in Hindi

हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः,

सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।

शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां,

वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्,

मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।

सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः,

गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं,

भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।

द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं,

जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण,

प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले ।

ललाटे पाटीरं मृगमदयुतं धारय हरे,

गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं,

मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।

इमौ पाणी वाणीपतिनुत सुकर्पूररजसा,

विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं,

सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।

यशोदासूनो तत् परमदययाऽशान सखिभिः,

प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे,

फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।

सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं,

प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी –

युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।

तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं,

चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो (श्रान्तविदुषाम्) ॥ ८ ॥

नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः,

कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम् (तत इयम्) ।

तव प्रीत्यै भूयादहमपि च दासस्तव विभो,

कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णस्सजलघननीलः करतले,

दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।

कदाचित् कान्तानां कुचकलशपत्रालिरचना –

समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥

मणिकर्णीच्छया जातमिदं मानसपूजनम् ।

यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ ११ ॥

॥ इति श्रीकृष्ण मानस पूजा स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics