!doctype html> Stotramश्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् (Srikrishna Keshadipadam Varnana) Lyrics — Vrinda Ke Geet
🪷
Krishna स्तोत्रम्

Stotramश्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्

Srikrishna Keshadipadam Varnana

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Srikrishna Keshadipadam Varnana Stotram

श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम्

श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् हिंदी पाठ

Srikrishna

Keshadipadam Varnana Stotram in Hindi

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं,

पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।

तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै,

रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च ॥` १ ॥

नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या,

रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।

मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं,

स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥

हृद्यं पूर्णानुकंपार्णवमृदुलहरी चञ्चलभ्रूविलासैः,

आनीलस्निग्द्धपक्ष्मावलि परिलसितं नेत्रयुग्मं विभो ते ।

सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं,

कारुण्यालोकलीला शिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥

उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली,

व्यालोलत् कर्णपाशाञ्चितमकरमणी कुण्डलद्वन्द्वदीप्रम् ।

उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय बिम्बाधरान्तः,

प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥ ४ ॥

बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता शोणपाणिप्रवाले,

नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।

कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः,

शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं,

वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम् ।

नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल,

ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥

अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं,

लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।

शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं पीतचेलं दधानं,

ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी मण्डितं त्वाम् ॥ ७ ॥

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः,

विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।

आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग,

च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ ८ ॥

मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं,

पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम् ।

उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानाम्,

संताप ध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो,

भाक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।

नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो,

हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

॥ इति श्रीकृष्ण की शादीपाद-वर्णन स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
krishna
Type
strotram
Published
21 जून 2026
Tags
krishna strotram

Download Lyrics