आज राम मेरे घर आए: भजन
Aaj Ram Mere Ghar Aaye
आज राम मेरे घर आए: भजन — a beautiful devotional aarti lyrics page.
!doctype html>
Ahalyakruta Srirama
Stotramअहिल्या कृत श्रीराम स्तोत्र — a beautiful devotional strotram lyrics page.
Published: 21 जून 2026
Ahalyakruta Srirama Stotram
अहिल्या कृत श्रीराम स्तोत्र
अहो कृतार्थाऽस्मि जगन्निवास ते
पदाब्जसंलग्नरजःकणादहं ।
स्पृशामि यत्पद्मजशङ्करादिभि-
र्विमृश्यते रन्धितमानसैः सदा ॥ १ ॥
अहो विचित्रं तव राम चेष्टितम्
मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्रं चरणादि वर्जितः
संपूर्ण आनन्दमयोऽतिमायिकः ॥ २ ॥
यत्पादपंकजपरागविचित्रगात्रा
भागीरथी भवविरिञ्चमुखान् पुनाति ।
साक्षात् स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम् ।
धनुर्द्धरं पद्मविलोललोचनं
भजामि नित्यं न परान् भजिष्ये ॥ ४ ॥
यत्पादपङ्कजरजःश्रुतिभिर्विमृग्यं
यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान् पुरारिः
तं रामचन्द्रमनिशं हृदि भावयामि ॥ ५ ॥
यस्यावतारचरितानि विरिञ्चलोके
गायन्ति नारदमुखाभवपद्मजाद्याः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥
सोयं परात्मा पुरुषः पुराण
एषः स्वयंज्योतिरनन्त आद्यः ।
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एव रामः ॥ ७ ॥
अयं हि विश्वोद्भवसंयमाना-
मेकः स्वमायागुणबिम्बितो यः ।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण अत्मा ॥ ८ ॥
नमोस्तु ते राम तवाङ्घ्रिपंकजं
श्रिया धृतं वक्षसि लालितं प्रियात् ।
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९ ॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंबद्ध एको भाति भवान् परः ॥ १० ॥
ऒङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥
कार्यकारणकर्तृत्त्व-फलसाधनभेदतः ।
एको विभासि राम त्वं मायया बहुरूपया ॥ १२ ॥
त्वन्मायामोहितधिय-स्त्वां न जानन्ति तत्त्वतः ।
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३ ॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असंगोह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥
देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु ते ॥ १६ ॥
नमस्ते पुरुषाद्ध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेस्तु हृषीकेश नारायण नमोस्तुते ॥ १७ ॥
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्नवत् कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥
स्तुत्वैवं पुरुषं साक्षात् राघवं पुरतःस्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥
अहल्यया कृतं स्तोत्रं यः पठेत्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः प्ररब्रह्माधिगच्छति ॥ २० ॥
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि विधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ २१ ॥
ब्रह्मघ्नो गुरुतल्पगोपि पुरुषः स्तेयी सुरापोपि वा ।
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः ॥ २२ ॥
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदि संस्मरन् ।
ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥
॥ इति अहिल्या कृत श्रीराम स्तोत्र संपूर्णम् ॥
Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!