!doctype html> Stotramअश्वत्थ स्तोत्र (Ashwattha) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramअश्वत्थ स्तोत्र

Ashwattha

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Ashwattha Stotram

अश्वत्थ स्तोत्र

Ashwattha

Stotram Path in Hindi

अश्वत्थ स्तोत्र हिंदी पाठ

श्रीनारद उवाच

अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् ।

सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ॥ १ ॥

ब्रह्मोवाच

श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् ।

यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ॥ २ ॥

अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः ।

ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ॥ ३ ॥

स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा ।

मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ॥ ४ ॥

पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः ।

तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५ ॥

त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते ।

त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ॥ ६ ॥

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे ।

बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७ ॥

अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले ।

अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८ ॥

क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते ।

सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ॥ ९ ॥

एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः ।

नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १० ॥

अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः ।

हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥ ११ ॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२ ॥

सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् ।

परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ॥ १३ ॥

अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् ।

शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४ ॥

अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने ।

नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ॥ १५ ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे ।

अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १६ ॥

यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते ।

यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ॥ १७ ॥

अश्वत्थ सुमहाभाग सुभग प्रियदर्शन ।

इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ॥ १८ ॥

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् ।

देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९ ॥

ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः ।

अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ॥ २० ॥

ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।

आवृत्य लक्षसङ्ख्यं तत् स्तोत्रमेतत् सुखी भवेत् ॥ २१ ॥

ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः ।

पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ॥ २२ ॥

एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् ।

अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३ ॥

मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् ।

विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥ २४ ॥

पदे पदान्तरं गत्वा करचेष्टाविवर्जितः ।

वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ॥ २५ ॥

अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः ।

धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ॥ २६ ॥

अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः ।

एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७ ॥

अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् ।

अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ॥ २८ ॥

एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते ।

यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९ ॥

छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः ।

अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३० ॥

॥ इति अश्वत्थ स्तोत्रं सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics