!doctype html> Stotramभक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र (Bhakta-Manoratha Siddhipradam Ganesha) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramभक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

Bhakta-Manoratha Siddhipradam Ganesha

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Bhakta-Manoratha Siddhipradam Ganesha Stotram

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र हिंदी

Bhakta-Manoratha Siddhipradam

Ganesha

Stotram

॥ श्री गणेशाय नमः ॥

॥ स्कन्द उवाच ॥

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।

असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।

भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।

तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।

तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।

हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।

तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥

द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः ।

चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥

जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।

जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।

मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।

वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics