!doctype html> Stotramश्री ब्रह्मा द्वारा रचित सरस्वती स्तोत्र (Brahma Kruta Saraswati) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री ब्रह्मा द्वारा रचित सरस्वती स्तोत्र

Brahma Kruta Saraswati

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Brahma Kruta Saraswati Stotram

श्री ब्रह्मा द्वारा रचित सरस्वती स्तोत्र

Brahma Kruta Saraswati Stotram in Hindi

श्री ब्रह्मा सरस्वती

स्तोत्र हिंदी पाठ

आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं,

वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः,

क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १ ॥

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।

अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा ।

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २ ॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं,

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां,

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३ ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता,

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४ ॥

ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे,

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याङ्घ्रिपद्मे ।

पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्रि,

प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ ५ ॥

ऐं ऐं ऐं इन्ष्टमन्त्रे कमलभवमुखाम्भोजभूतिस्वरूपे,

रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।

न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञाततत्त्वे,

विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥ ६ ॥

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते,

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्तां ।

विद्यां वेदान्तवेद्यां परिणतपठिते मोक्षदे मुक्तिमार्गे,

मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥ ७ ॥

धीर्धीर्धीर्धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये,

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।

पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे,

मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे ॥ ८ ॥

ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते,

सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।

मोहे मुग्धप्रभावे कुरु मम कुमतिध्वान्तविध्वंसमीड्ये,

गीर्गीर्वाग्भारती त्वं कविवररसनासिद्धिदे सिद्धसाध्ये ॥ ९ ॥

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित्त्यजेथा,

मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम् ।

मा मे दुःखं कदाचित् क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं,

शास्त्री वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ १० ॥

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो,

वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मुष्टकण्ठः ।

स स्यादिष्टार्थलाभैः सुतमिव सततं पाति तं सा च देवी,

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति ॥ ११ ॥

निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः,

कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।

दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो,

वाग्देव्याः संप्रसादात् त्रिजगति विजयी जायते सत्सभासु ॥ १२ ॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।

सारस्वतो जनः पाठात् सकृदिष्टार्थलाभवान् ॥ १३ ॥

पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।

अविच्छिन्नः पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ १४ ॥

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः।

वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १५ ॥

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।

प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते ॥ १६ ॥

इति श्री ब्रह्मा सरस्वती स्तोत्र संपूर्णम्‌

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics