!doctype html> Stotramइन्द्राक्षी स्तोत्र हिंदी (Indrakshi) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramइन्द्राक्षी स्तोत्र हिंदी

Indrakshi

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Indrakshi Stotram

इन्द्राक्षी स्तोत्र हिंदी

विनियोग:

अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य,

शचीपुरन्दर ऋषिः, अनुष्टुप् छन्दः,

इन्द्राक्षी दुर्गा देवता, लक्ष्मीर्बीजं,

भुवनेश्वरीति शक्तिः, भवानीति कीलकम् ,

इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्:

नेत्राणां दशभिश्शतैः परिवृतामत्युग्रचर्माम्बरां

हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् ।

घण्टामण्डित-पादपद्मयुगलां नागेन्द्र-कुम्भस्तनीम्

इन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥

इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् ।

वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥

इन्द्राक्षीं सहस्रयुवतीं नानालङ्कार-भूषिताम् ।

प्रसन्नवदनाम्भोजामप्सरोगण-सेविताम् ॥

द्विभुजां सौम्यवदनां पाशाङ्कुशधरां पराम् ।

त्रैलोक्यमोहिनीं देवीमिन्द्राक्षीनामकीर्तिताम् ॥

पीताम्बरां वज्रधरैकहस्तां नानाविधालङ्करणां प्रसन्नाम् ।

त्वामप्सरस्सेवित-पादपद्मामिन्द्राक्षि वन्दे शिवधर्मपत्नीम् ॥

इन्द्रादिभिः सुरैर्वन्द्यां वन्दे शङ्करवल्लभाम् ।

एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।

हं आकाशात्मने पुष्पैः पूजयामि ।

यं वाय्वात्मने धूपमाघ्रापयामि ।

रं अग्न्यात्मने दीपं दर्शयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।

सं सर्वात्मने सर्वोपचार-पूजां समर्पयामि ।

वज्रिणी पूर्वतः पातु चाग्नेय्यां परमेश्वरी ।

दण्डिनी दक्षिणे पातु नैरॄत्यां पातु खड्गिनी ॥ १॥

पश्चिमे पाशधारी च ध्वजस्था वायु-दिङ्मुखे ।

कौमोदकी तथोदीच्यां पात्वैशान्यां महेश्वरी ॥ २॥

उर्ध्वदेशे पद्मिनी मामधस्तात् पातु वैष्णवी ।

एवं दश-दिशो रक्षेत् सर्वदा भुवनेश्वरी ॥ ३॥

इन्द्राक्षीं स्तोत्र:

इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता ।

गौरी शाकम्भरी देवी दुर्गा नाम्नीति विश्रुता ॥ ४ ॥

नित्यानन्दा निराहारा निष्कलायै नमोऽस्तु ते ।

कात्यायनी महादेवी चन्द्रघण्टा महातपाः ॥ ५ ॥

सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी ।

नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ॥ ६ ॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।

मेघस्श्यामा सहस्राक्षी विकटाङ्गी जडोदरी ॥ ७ ॥

महोदरी मुक्तकेशी घोररूपा महाबला ।

अजिता भद्रदानन्ता रोगहर्त्री शिवप्रदा ॥ ८ ॥

शिवदूती कराली च प्रत्यक्ष-परमेश्वरी ।

इन्द्राणी इन्द्ररूपा च इन्द्रशक्तिः परायणा ॥ ९ ॥

सदा सम्मोहिनी देवी सुन्दरी भुवनेश्वरी ।

एकाक्षरी परब्रह्मस्थूलसूक्ष्म-प्रवर्धिनी ॥ १० ॥

रक्षाकरी रक्तदन्ता रक्तमाल्याम्बरा परा ।

महिषासुर-हन्त्री च चामुण्डा खड्गधारिणी ॥ ११ ॥

वाराही नारसिंही च भीमा भैरवनादिनी ।

श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥ १२ ॥

अनन्ता विजयापर्णा मानस्तोकापराजिता ।

भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा ॥ १३ ॥

शिवा भवानी रुद्राणी शङ्करार्ध-शरीरिणी ।

ऐरावतगजारूढा वज्रहस्ता वरप्रदा ॥ १४ ॥

नित्या सकल-कल्याणी सर्वैश्वर्य-प्रदायिनी ।

दाक्षायणी पद्महस्ता भारती सर्वमङ्गला ॥ १५ ॥

कल्याणी जननी दुर्गा सर्वदुर्गविनाशिनी ।

इन्द्राक्षी सर्वभूतेशी सर्वरूपा मनोन्मनी ॥ १६ ॥

महिषमस्तक-नृत्य-विनोदन-स्फुटरणन्मणि-नूपुर-पादुका ।

जनन-रक्षण-मोक्षविधायिनी जयतु शुम्भ-निशुम्भ-निषूदिनी ॥ १७ ॥

सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तुते ॥ १८ ॥

ॐ ह्रीं श्रीं इन्द्राक्ष्यै नमः। ॐ नमो भगवति, इन्द्राक्षि,

सर्वजन-सम्मोहिनि, कालरात्रि, नारसिंहि, सर्वशत्रुसंहारिणि ।

अनले, अभये, अजिते, अपराजिते,

महासिंहवाहिनि, महिषासुरमर्दिनि ।

हन हन, मर्दय मर्दय, मारय मारय, शोषय

शोषय, दाहय दाहय, महाग्रहान् संहर संहर ॥ १९ ॥

यक्षग्रह-राक्षसग्रह-स्कन्धग्रह-विनायकग्रह-बालग्रह-कुमारग्रह-

भूतग्रह-प्रेतग्रह-पिशाचग्रहादीन् मर्दय मर्दय ॥ २० ॥

भूतज्वर-प्रेतज्वर-पिशाचज्वरान् संहर संहर ।

धूमभूतान् सन्द्रावय सन्द्रावय ।

शिरश्शूल-कटिशूलाङ्गशूल-पार्श्वशूल

पाण्डुरोगादीन् संहर संहर ॥ २१ ॥

य-र-ल-व-श-ष-स-ह, सर्वग्रहान् तापय

तापय, संहर संहर, छेदय छेदय ह्रां ह्रीं ह्रूं फट् स्वाहा ॥ २२ ॥

गुह्यात्-गुह्य-गोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ २३ ॥

फलश्रुतिः

॥ नारायण उवाच ॥

एवं नामवरैर्देवी स्तुता शक्रेण धीमता ।

आयुरारोग्यमैश्वर्यमपमृत्यु-भयापहम् ॥ १ ॥

वरं प्रादान्महेन्द्राय देवराज्यं च शाश्वतम् ।

इन्द्रस्तोत्रमिदं पुण्यं महदैश्वर्य-कारणम् ॥ २ ॥

क्षयापस्मार-कुष्ठादि-तापज्वर-निवारणम् ।

चोर-व्याघ्र-भयारिष्ठ-वैष्णव-ज्वर-वारणम् ॥ ३ ॥

माहेश्वरमहामारी-सर्वज्वर-निवारणम् ।

शीत-पैत्तक-वातादि-सर्वरोग-निवारणम् ॥ ४ ॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।

आवर्तन-सहस्रात्तु लभते वाञ्छितं फलम् ॥ ५ ॥

राजानं च समाप्नोति इन्द्राक्षीं नात्र संशय ।

नाभिमात्रे जले स्थित्वा सहस्रपरिसंख्यया ॥ ६ ॥

जपेत् स्तोत्रमिदं मन्त्रं वाचासिद्धिर्भवेद्ध्रुवम् ।

सायं प्रातः पठेन्नित्यं षण्मासैः सिद्धिरुच्यते ॥ ७ ॥

संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये ।

अनेन विधिना भक्त्या मन्त्रसिद्धिः प्रजायते ॥ ८ ॥

सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते ।

अष्टम्यां च चतुर्दश्यामिदं स्तोत्रं पठेन्नरः ॥ ९ ॥

धावतस्तस्य नश्यन्ति विघ्नसंख्या न संशयः ।

कारागृहे यदा बद्धो मध्यरात्रे तदा जपेत् ॥ १० ॥

दिवसत्रयमात्रेण मुच्यते नात्र संशयः ।

सकामो जपते स्तोत्रं मन्त्रपूजाविचारतः ॥ ११ ॥

पञ्चाधिकैर्दशादित्यैरियं सिद्धिस्तु जायते ।

रक्तपुष्पै रक्तवस्त्रै रक्तचन्दनचर्चितैः ॥ १२ ॥

धूपदीपैश्च नैवेद्यैः प्रसन्ना भगवती भवेत् ।

एवं सम्पूज्य इन्द्राक्षीमिन्द्रेण परमात्मना ॥ १३ ॥

वरं लब्धं दितेः पुत्रा भगवत्याः प्रसादतः ।

एतत् स्त्रोत्रं महापुण्यं जप्यमायुष्यवर्धनम् ॥ १४ ॥

ज्वरातिसार-रोगाणामपमृत्योर्हराय च ।

द्विजैर्नित्यमिदं जप्यं भाग्यारोग्यमभीप्सुभिः ॥ १५ ॥

॥ इति इन्द्राक्षी-स्तोत्रं सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics