!doctype html> Stotramकामकला काली स्तोत्र (Kamakala Kali) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramकामकला काली स्तोत्र

Kamakala Kali

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Kamakala Kali Stotram

कामकला काली स्तोत्र

कामकला काली स्तोत्र हिंदी पाठ

Kamakala Kali

Stotram in Hindi

अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् ।

यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥ १ ॥

विजेतुं प्रतस्थे यदा कालकस्या-,

सुरान् रावणो मुञ्जमालिप्रवर्हान् ।

तदा कामकालीं स तुष्टाव,

वाग्भिर्जिगीषुर्मृधे बाहुवीर्य्येण सर्वान् ॥ २ ॥

महावर्त्तभीमासृगब्ध्युत्थवीची-,

परिक्षालिता श्रान्तकन्थश्मशाने ।

चितिप्रज्वलद्वह्निकीलाजटाले,

शिवाकारशावासने सन्निषण्णाम् ॥ ३ ॥

महाभैरवीयोगिनीडाकिनीभिः,

करालाभिरापादलम्बत्कचाभिः ।

भ्रमन्तीभिरापीय मद्यामिषास्रान्यजस्रं,

समं सञ्चरन्तीं हसन्तीम् ॥ ४ ॥

महाकल्पकालान्तकादम्बिनी-,

त्विट्परिस्पर्द्धिदेहद्युतिं घोरनादाम् ।

स्फुरद्द्वादशादित्यकालाग्निरुद्र-,

ज्वलद्विद्युदोघप्रभादुर्निरीक्ष्याम् ॥ ५ ॥

लसन्नीलपाषाणनिर्माणवेदि-,

प्रभश्रोणिबिम्बां चलत्पीवरोरुम् ।

समुत्तुङ्गपीनायतोरोजकुम्भां,

कटिग्रन्थितद्वीपिकृत्त्युत्तरीयाम् ॥ ६ ॥

स्रवद्रक्तवल्गन्नृमुण्डावनद्धा-,

सृगाबद्धनक्षत्रमालैकहाराम् ।

मृतब्रह्मकुल्योपक्लृप्ताङ्गभूषां,

महाट्टाट्टहासैर्जगत् त्रासयन्तीम् ॥ ७ ॥

निपीताननान्तामितोद्धृत्तरक्तो-,

च्छलद्धारया स्नापितोरोजयुग्माम् ।

महादीर्घदंष्ट्रायुगन्यञ्चदञ्च-,

ल्ललल्लेलिहानोग्रजिह्वाग्रभागाम् ॥ ८ ॥

चलत्पादपद्मद्वयालम्बिमुक्त-,

प्रकम्पालिसुस्निग्धसम्भुग्नकेशाम् ।

पदन्याससम्भारभीताहिराजा-,

ननोद्गच्छदात्मस्तुतिव्यस्तकर्णाम् ॥ ९ ॥

महाभीषणां घोरविंशार्द्धवक्त्रै-,

स्तथासप्तविंशान्वितैर्लोचनैश्च ।

पुरोदक्षवामे द्विनेत्रोज्ज्वलाभ्यां,

तथान्यानने त्रित्रिनेत्राभिरामाम् ॥ १० ॥

लसद्वीपिहर्य्यक्षफेरुप्लवङ्ग-,

क्रमेलर्क्षतार्क्षद्विपग्राहवाहैः ।

मुखैरीदृशाकारितैर्भ्राजमानां,

महापिङ्गलोद्यज्जटाजूटभाराम् ॥ ११ ॥

भुजैः सप्तविंशाङ्कितैर्वामभागे,

युतां दक्षिणे चापि तावद्भिरेव ।

क्रमाद्रत्नमालां कपालं च शुष्कं,

ततश्चर्मपाशं सुदीर्घं दधानाम् ॥ १२ ॥

ततः शक्तिखट्वाङ्गमुण्डं भुशुण्डीं,

धनुश्चक्रघण्टाशिशुप्रेतशैलान् ।

ततो नारकङ्कालबभ्रूरगोन्माद-,

वंशीं तथा मुद्गरं वह्निकुण्डम् ॥ १३ ॥

अधो डम्मरुं पारिघं भिन्दिपालं,

तथा मौशलं पट्टिशं प्राशमेवम् ।

शतघ्नीं शिवापोतकं चाथ दक्षे,

महारत्नमालां तथा कर्त्तुखड्गौ ॥ १४ ॥

चलत्तर्ज्जनीमङ्कुशं दण्डमुग्रं,

लसद्रत्नकुम्भं त्रिशूलं तथैव ।

शरान् पाशुपत्यांस्तथा पञ्च कुन्तं,

पुनः पारिजातं छुरीं तोमरं च ॥ १५ ॥

प्रसूनस्रजं डिण्डिमं गृध्रराजं,

ततः कोरकं मांसखण्डं श्रुवं च ।

फलं बीजपूराह्वयं चैव सूचीं,

तथा पर्शुमेवं गदां यष्टिमुग्राम् ॥ १६ ॥

ततो वज्रमुष्टिं कुणप्पं सुघोरं,

तथा लालनं धारयन्तीं भुजैस्तैः ।

जवापुष्परोचिष्फणीन्द्रोपक्लृप्त-,

क्वणन्नूपुरद्वन्द्वसक्ताङ्घ्रिपद्माम् ॥ १७ ॥

महापीतकुम्भीनसावद्धनद्ध,

स्फुरत्सर्वहस्तोज्ज्वलत्कङ्कणां च ।

महापाटलद्योतिदर्वीकरेन्द्रा-,

वसक्ताङ्गदव्यूहसंशोभमानाम् ॥ १८ ॥

महाधूसरत्त्विड्भुजङ्गेन्द्रक्लृप्त-,

स्फुरच्चारुकाटेयसूत्राभिरामाम् ।

चलत्पाण्डुराहीन्द्रयज्ञोपवीत-,

त्विडुद्भासिवक्षःस्थलोद्यत्कपाटाम् ॥ १९ ॥

पिषङ्गोरगेन्द्रावनद्धावशोभा-,

महामोहबीजाङ्गसंशोभिदेहाम् ।

महाचित्रिताशीविषेन्द्रोपक्लृप्त-,

स्फुरच्चारुताटङ्कविद्योतिकर्णाम् ॥ २० ॥

वलक्षाहिराजावनद्धोर्ध्वभासि-,

स्फुरत्पिङ्गलोद्यज्जटाजूटभाराम् ।

महाशोणभोगीन्द्रनिस्यूतमूण्डो-,

ल्लसत्किङ्कणीजालसंशोभिमध्याम् ॥ २१ ॥

सदा संस्मरामीदृशों कामकालीं,

जयेयं सुराणां हिरण्योद्भवानाम् ।

स्मरेयुर्हि येऽन्येऽपि ते वै जयेयु-,

र्विपक्षान्मृधे नात्र सन्देहलेशः ॥ २२ ॥

पठिष्यन्ति ये मत्कृतं स्तोत्रराजं,

मुदा पूजयित्वा सदा कामकालीम् ।

न शोको न पापं न वा दुःखदैन्यं,

न मृत्युर्न रोगो न भीतिर्न चापत् ॥ २३ ॥

धनं दीर्घमायुः सुखं बुद्धिरोजो,

यशः शर्मभोगाः स्त्रियः सूनवश्च ।

श्रियो मङ्गलं बुद्धिरुत्साह आज्ञा,

लयः शर्म सर्व विद्या भवेन्मुक्तिरन्ते ॥ २४ ॥

॥ इति कामकला काली स्तोत्र सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics