!doctype html> Stotramमाँ तारा स्तोत्र (Maa Tara Devi) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramमाँ तारा स्तोत्र

Maa Tara Devi

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Maa Tara Devi Stotram

माँ तारा स्तोत्र

Maa Tara Devi

Stotram in Hindi

माँ तारा स्तोत्र हिंदी पाठ

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे

प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।

फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं

चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १ ॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि

सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे ।

नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे

सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् ॥ २ ॥

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले

व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते ।

सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज

ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३ ॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिकेहुंफट्कारमयि

त्वमेव शरणं मन्त्रात्मिके मादृशः ।

मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परावेदनां

नहि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥ ४ ॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतांतस्य

श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः ।

संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान्

सुरान्मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते ॥ ५ ॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते

देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः ।

देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः

परेतत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम् ॥ ६ ॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते

भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः ।

दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवोडाकिन्यः

कुपितान्तकाश्च मनुजा मातः क्षणं भूतले ॥ ७ ॥

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा

वारिणांस्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम् ।

मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः

कान्तिः कान्ततरा भवेच्च महती मूढोऽपि वाचस्पतिः ॥ ८ ॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः ।

प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९ ॥

लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत् ।

लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् ॥ १० ॥

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् ।

विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥ ११ ॥

।। इति माँ तारा स्तोत्र सम्पूर्णम् ।।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics