!doctype html> Stotramऋणमोचन अंगारक स्तोत्रम् (Rin Mochan Angaraka) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramऋणमोचन अंगारक स्तोत्रम्

Rin Mochan Angaraka

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Rin Mochan Angaraka Stotram

ऋणमोचन अंगारक स्तोत्रम्

ऋणमोचन अंगारक स्तोत्रम् का हिंदी पाठ

(

Rin Mochan Angaraka

Stotram Hindi)

अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् ।

स्कन्द उवाच ।

ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।

वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ।

अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः ।

अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः ।

ध्यानम् ।

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।

चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।

धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।

सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥ ४॥

एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ।

ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५॥

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।

नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥ ६॥

रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।

मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥

एकविंशति नामानि पठित्वा तु तदन्तिके ।

ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥ ८॥

ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् ।

एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥ ९॥

महतीं श्रियमाप्नोति धनदेन समो भवेत् ।

भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥ १०॥

मूलमन्त्रः

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।

नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥ ११॥

अर्घ्यम् । भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।

ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२॥

। इति ऋणमोचन अङ्गारकस्तोत्रं सम्पूर्णम् ।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics