!doctype html> Stotramश्री लघु स्तोत्रम् (Shri Laghu) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री लघु स्तोत्रम्

Shri Laghu

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Laghu Stotram

श्री लघु स्तोत्रम्

श्री लघु स्तोत्रम् हिंदी पाठ

Shri Laghu

Stotram in Hindi

आधारे तरुणार्कबिम्बरूचिरं सोमप्रभं वाग्भवं

बीजं मनमथमिंद्रगोपकनिभं ह्रत्पंकजे संस्थितम् ।

रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं ये

ध्यायंति पदत्रयं तव शिवे ते यांति सौख्यं पदम् ।। 1 ।।

ॐ अस्य श्रीलघुस्तोत्रस्य वृद्धसारस्वतऋषि: ।

त्रिपुराभैरवी देवता । शार्दूलविक्रीडितं छंद: ।

मम सर्वकामफलप्राप्त्र्थे जपे विनियोग: ।

ॐ ऐन्द्रस्येव शरासनस्य दधतो मध्ये ललाटप्रभां

शौक्लीं कान्तिमनुष्य गोरिव शिरस्यातन्वती सर्वत: ।

एषाऽसौ त्रिपुरा ह्रदि द्युतिरिवोष्मांशो: सदा संस्थिता

छिद्यान्न: सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वांगमयी ।। 1 ।।

या मात्रा त्रिपुषोलतातनुलसत्तंतुसिथतिस्पर्धिनी

वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।

शक्ति कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां

ज्ञात्वेत्थं न पुन: स्प्रशंति जननीगर्भेर्भकत्वं नरा: ।। 2 ।।

दृष्ट्वा संभ्रमकारि वस्तु सहसा ऐं ऐमिति व्याह्रतं

येनाकूतवशादपीह वरदे बिंदु बिनाप्यक्षरम् ।

तस्यापि ध्रुवमेव देवितरसा जाते तवानुग्रहे वाच:

सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ।। 3 ।।

यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरल: कश्र्चिद्बुधश्रेचद्भुवि ।

आख्यां प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजा:

प्रारम्भे प्रणवास्पदं प्रणयितुं नित्योंच्चरंति स्फुटम् ।। 4 ।।

यत्सदयो वचसां प्रव्रत्तिकरणे दृष्टप्रभावं

बुधैस्तार्तीयं तदहं नमामि मनसा तद्वीजमिंदुप्रभम् ।

अस्त्वौर्वोऽपि सरस्वतीमनुगते जाड्यांबुविच्छित्तये

गोशब्दो गिरिवर्तते सुनियतं योगं विना सिद्धित: ।। 5 ।।

एकैकं तव देवि जन्म हयनघं सव्यंजनाव्यंजनं

कूटस्थं यदि वा प्रथक क्रमगतं यद्वा स्थितं व्युत्क्रमात् ।

यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं

जप्तं वा सफलीकरोति तरसा तं तं समस्तं न्रणाम् ।। 6 ।।

वामे पुस्तकधारिणीमभयदां साक्षस्त्रजं दक्षिणे

भक्तेभ्या वरदानपेशलकरां कर्पूरकंदोज्ज्वलाम् ।

उज्ज्रम्भाम्बुजपत्रकान्तिनयनां स्त्रिग्धप्रभालोकिनीं ये

त्वामंब न शीलयन्ति मनसा तेषां कवित्वं कुत: ।। 7 ।।

ये त्वां पांडुरपुण्डरीकपटलस्पष्टाभिरामप्रभां

सिंचंतीममृतद्रवैरिव शिरो ध्यायंति मूर्धि्न स्थिताम् ।

अश्रातं विकटं स्फ्टाक्षरपदा निर्यान्ति वक्त्राम्बुजात्तेषां

भारति भारती सुरसरित्कल्लोललोलोर्मय: ।। 8 ।।

ये सिंदूरपरागपुंजपिहितां त्वत्तेजसा द्यामिमामुर्वीं

चापि विलीनयावकरसप्रस्तारमगनामिव ।

पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनंगज्वरक्लांता

स्त्रस्तकुरंगदारकद्रशो वश्या भवानी ध्रुवम् ।। 9 ।।

चंचत्कांचनकुण्डलांगदधरामाबद्धकांचिस्रजं ये त्वां

चेतसि तदनतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।

तेषां वेश्मसु विभ्रमादहरह:कारीभवंत्यश्र्चिरं

माद्यत्कुंजकर्णतालतरला: स्थैर्यं भजंति श्रिय: ।। 10 ।।

आर्भक्याशशिखण्डमण्डित जटाजूटां न्रमुंडस्त्रजं

बंधूकप्रसवारुणांबरधरां प्रेतासनाध्यासिनीम् ।

त्वां ध्यायंति चतुर्भुजां त्रिनयनामापीनतुंगस्तनीं मध्ये

निम्नवलित्रयांकिततनुं त्वद्रूपकं चिन्तये ।। 11 ।।

जातोऽप्यल्पहरिच्छिदे क्षितिभुजां सामान्यमात्रे कुले

नि:शेषावनिचक्रवर्तिपदवीं लब्धवा प्रतापोन्नत: ।

यद्विद्याधरवृन्दवन्दितपद: श्रीवत्सराजोभवद्देवि

त्वंचरणांबुजप्रणतित: सोऽयं प्रसादोदय: ।। 12 ।।

चण्डी त्वंचरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्ठनात्

त्रुट्यत्कंटककोटिभि: परिचयं येषां न जग्मु: करा: ।

ते दंडाकुशचक्रचापकुलिशश्रीवत्सवत्सांकितेर्जायन्ते

पृथिवीभुज: कथमिवाम्भोजप्रभै: पाणिभि: ।। 13 ।।

विप्रा: क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैस्त्वां

देवि त्रिपुरे परां परकलां संतर्प्य पूजाविधौ ।

यां यां प्रार्थयते मन: स्थिरधियां येषां त एव ध्रुवं तां

तां सिद्धि मवापनुवन्ति तरसा विघ्नैरविघ्नीकृता: ।। 14 ।।

शब्दानां जननि त्वमत्र भुवने वाग्वादिनोत्युच्यसे

त्वत्त केशववासवप्रभृतयोप्याविर्भवन्ति ध्रुवम् ।

लीयन्ते खलु यत्र कल्पवरिमे ब्रह्मादयस्तेऽप्यमी सा

त्वं काचिदचिन्त्यरूपगहना शक्ति: परा गीयसे ।। 15 ।।

देवानां त्रितयं त्रयीहुतभुजां शक्तित्रयं त्रिस्वरास्त्रैलोक्यं

त्रिपदी त्रिपुष्करमथो त्रिर्ब्रह्मकर्णास्त्रय: ।

यत्किंचिंज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं

तत्सर्व त्रिपुरेति नाम भगवत्यन्वेति ते सत्तवत: ।। 16 ।।

लक्ष्मीं राजकुले जयं रणमुखे क्षेमकंरीमध्वनि

क्रव्यादद्विपसर्पभाजि शबरीकांतारदुर्गे गिरौ ।

भूतप्रेतपिशाचज्रम्भकभयं स्मृत्वा महाभैरवीं व्यामोहे

त्रिपुरां तरन्ति विपदस्तारांचतां यत्प्लवे ।। 17 ।।

या या कुण्डलिनी क्रिया मधुमती काली कलामालिनी

मातंगी विजया जया भगवती देवी शिवा शाम्भवी ।

शक्ति शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी

ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ।। 18 ।।

आईपल्लवितै: परस्परयुतैर्द्वित्रिक्रमाद्यक्षरै: काद्यै:

क्षान्तगतै: स्वरादिभिरथ क्षांतैश्र्च तै: सस्वरै: ।

नामानि त्रिपुरे भवन्ति खलु या नित्यं तु गुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्त्रेभ्य: परेभ्यो नम: ।। 19 ।।

बोद्धव्या निपुणं बुधै: स्तुतिरियं कृत्वा मनस्तदन्तं

भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ति: स्फुटम् ।

एकद्वित्रिपदक्रमेण कथितस्तत्पादसंख्या-

क्षरैर्मन्त्रोद्धारविधिर्विशेषसहित: सत्संप्रदायान्वित: ।। 20 ।।

सावद्यं निरवद्यमस्तु यदि वा किंवाऽनया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

संचिन्त्यापि लघुत्वमात्मनि दृढ संजायमानं हठात्वद्भक्त्या

मुखरीकृतेन रचितं यत्स्यान्मयाऽपि ध्रुवम् ।। 21 ।।

आनन्दोद्भवकम्पघूर्णंनयनं निद्राट्टहासादिकं

वेदव्याकरणावगाहकवितातर्कोक्तिमुक्तिप्रदम् ।

वश्याकर्षपुरप्रवेशनगरक्षोभादिसिद्धयष्टकं लघ्वाचार्य

इदं करोति सततं सौभाग्यमारोग्यताम् ।। 22 ।।

गौरि त्र्म्बकपत्नि पार्वति सति त्रैलोक्यगाने शिवे

शर्वाणि त्रिपुरे भवानि वरदे रुद्राणि कात्यायनि ।

भीमे भैरवि चण्डिसर्ववरदे कालेक्षये शूलिनि त्वत्पादप्रणतं

।। इति श्री लघु स्तोत्रम् संपूर्णम् ।।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics