!doctype html> Stotramश्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् (Shri Parashuram Ashtottara-Shatanama) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम्

Shri Parashuram Ashtottara-Shatanama

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Parashuram Ashtottara-Shatanama Stotram

श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम्

श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् हिंदी पाठ

Shri Parashuram Ashtottara-Shatanama

Stotram in Hindi

रामो राजाटवीवह्नि रामचन्द्रप्रसादकः ।

राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १ ॥

रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी ।

रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २ ॥

राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः ।

राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३ ॥

रत्नाकरकृतावासो रतीशकृतविस्मयः ।

रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४ ॥

राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् ।

राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥ ५ ॥

रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः ।

रणत्कुठारो रविभूदण्डायित महाभुजः ॥ ६ ॥

रमानाधधनुर्धारी रमापतिकलामयः ।

रमालयमहावक्षा रमानुजलसन्मुखः ॥ ७ ॥

रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः ।

रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥ ८ ॥

रोषानलमयाकारो रेणुकापुनराननः ।

राधेयचातकाम्भोदो रुद्धचापकलापगः ॥ ९॥

राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः ।

रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥ १० ॥

राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः ।

रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥ ११ ॥

रामनामप्रधानार्धो रत्नाकरगभीरधीः ।

राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥ १२ ॥

रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् ।

रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥ १३ ॥

रविताराचिरस्थायी रक्तदेवर्षिभावनः ।

रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥ १४ ॥

रचितस्वर्णसोपानो रन्धिताशयवासनः ।

रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥ १५ ॥

रत्नसूनुमहाधीरो रसासुरशिखामणिः ।

रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥ १६ ॥

रचितभ्रातृहननो रक्षितभातृको रणी ।

राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥ १७ ॥

रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः ।

राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥ १८ ॥

राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः ।

रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥ १९ ॥

राजबीजोदरक्षोणीपरित्यागी रसात्पतिः ।

रसाभारहरो रस्यो राजीवजकृतक्षमः ॥ २० ॥

रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः ।

रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥ २१ ॥

रामाभिन्नो रुद्रमयो रामरुद्रो भयात्मकः ।

रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥ २२ ॥

रामानन्दो रामनामो रामो रामात्मनिर्भिदः ।

रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥ २३ ॥

रामज्ञानकुठारात्त राजलोकमहातमाः ।

रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥ २४ ॥

मङ्गलं जामदग्न्याय कार्तवीर्यार्जुनच्छिदे ।

मङ्गलं परमोदार सदा परशुराम ते ॥ २५ ॥

मङ्गलं राजकालाय दुराधर्षाय मङ्गलं ।

मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥ २६ ॥

जमदग्नि तनूजाय जिताखिलमहीभृते ।

जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥ २७ ॥

॥ इति श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics