!doctype html> Stotramश्री राम स्तोत्र (Shri Rama) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री राम स्तोत्र

Shri Rama

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Rama Stotram

श्री राम स्तोत्र

श्री राम स्तोत्र हिंदी पाठ

Shri Rama Stotram in Hindi

आपदामपहर्तारं दातारं सर्वसंपदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ १ ॥

आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।

द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥ २ ॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च ।

खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥ ३ ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ४ ॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।

आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ ५ ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ ६ ॥

अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।

नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥ ७ ॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।

वेदाच्छास्त्रं परं नास्ति न दैवं केशवात् परम् ॥ ८ ॥

शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ ९ ॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥ १० ॥

कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् ।

करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ११ ॥

यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।

तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥ १२ ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।

न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥ १३ ॥

॥ इति श्री राम स्तोत्र सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics