!doctype html> Stotramश्री वेङ्कटेश स्तोत्रम् (Shri Venkatesa) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री वेङ्कटेश स्तोत्रम्

Shri Venkatesa

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Shri Venkatesa Stotram

श्री वेङ्कटेश स्तोत्रम्

श्री वेङ्कटेश स्तोत्रम् हिन्दी पाठ

Shri Venkatesa

Stotram in Hindi

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।

सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः ।

सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।

वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।

श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।

चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।

श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥

भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।

अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।

समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।

त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।

भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।

रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११ ॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।

ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।

सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३ ॥

मायावी परमानन्दं त्यक्त्वा वैङ्कुण्ठमुत्तमम् ।

स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।

श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।

वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १६ ॥

॥ इति श्री वेङ्कटेश स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics