!doctype html> Stotramश्री दधि वामन स्तोत्रम् (Sri Dadhi Vamana) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री दधि वामन स्तोत्रम्

Sri Dadhi Vamana

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Dadhi Vamana Stotram

श्री दधि वामन स्तोत्रम्

श्री दधि वामन स्तोत्रम् हिंदी पाठ

Sri Dadhi Vamana

Stotram in Hindi

हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।

पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥ १ ॥

पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।

ज्वलत्कालानलप्रख्यं तडित्कॊटिसमप्रभम् ॥ २ ॥

सुर्यकॊटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।

चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥ ३ ॥

श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।

पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥ ४ ॥

सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।

षोडशस्त्रीयुतं संयगप्सरोगणसेवितम् ॥ ५ ॥

ऋग्यजुस्सामाथर्वाद्यैः गीयमानं जनार्दनम् ।

चतुर्मुखाद्यैः देवेशैः स्तोत्राराधनतत्परैः ॥ ६ ॥

सनकाद्यैः मुनिगणैः स्तूयमानमहर्निशम् ।

त्रियंबको महादेवो नृत्यते यस्य सन्निधौ ॥ ७ ॥

दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।

करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥ ८ ॥

साधकानाम् प्रयच्छन्तं अन्नपानमनुत्तमम् ।

ब्राह्मे मुहूर्तेचोत्थाय ध्यायेद्देवमधोक्षजम् ॥ ९ ॥

अतिसुविमलगात्रं रुक्मपात्रस्थमन्नम्

सुललितदधिभाण्डं पाणिना दक्षिणेन ।

कलशममृतपूर्णं वामहस्ते दधानं तरति

सकलदुःखान् वामनं भावयेद्यः ॥ १० ॥

क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।

पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ॥ ११ ॥

आयुरारोग्यमैश्वर्यं लभते चान्नसंपदः ।

इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥ १२ ॥

अक्लेशादन्नसिध्यर्थं ज्ञानसिध्यर्थमेव च ।

अभ्रश्यामः शुद्धयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः

छ्त्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी ॥ १३ ॥

अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये ।

मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः ॥ १४ ॥

श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।

नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥ १५ ॥

वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।

वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥ १६ ॥

॥ इति श्री दधि वामन स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics