!doctype html> Stotramश्री लक्ष्मी नारायण स्तोत्रम् (Sri Lakshmi Narayana) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री लक्ष्मी नारायण स्तोत्रम्

Sri Lakshmi Narayana

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Lakshmi Narayana Stotram

श्री लक्ष्मी नारायण स्तोत्रम्

श्री लक्ष्मी नारायण स्तोत्रम् हिंदी पाठ

Sri Lakshmi Narayana

Stotram in Hindi

ध्यानम् –

चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं

दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।

गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो

रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १ ॥

शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम् ।

बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २ ॥

विद्युत्प्रभाश्लिष्टघनोपमानौ

शुद्धाशयेबिंबितसुप्रकाशौ ।

चित्ते चिदाभौ कलयामि लक्ष्मी-

नारायणौ सत्त्वगुणप्रधानौ ॥ ३ ॥

लोकोद्भवस्थेमलयेश्वराभ्यां

शोकोरुदीनस्थितिनाशकाभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ४ ॥

सम्पत्सुखानन्दविधायकाभ्यां

भक्तावनाऽनारतदीक्षिताभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ५ ॥

दृष्ट्वोपकारे गुरुतां च पञ्च-

विंशावतारान् सरसं दधत्भ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी

नारायणाभ्यां जगतः पितृभ्याम् ॥ ६ ॥

क्षीरांबुराश्यादिविराट्भवाभ्यां

नारं सदा पालयितुं पराभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ७ ॥

दारिद्र्यदुःखस्थितिदारकाभ्यां

दयैवदूरीकृतदुर्गतिभ्याम्

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ८ ॥

भक्तव्रजाघौघविदारकाभ्यां

स्वीयाशयोद्धूतरजस्तमोभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ९ ॥

रक्तोत्पलाभ्राभवपुर्धराभ्यां

पद्मारिशंखाब्जगदाधराभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ १० ॥

अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां

मोक्षप्रदप्राक्तनदंपतीभ्याम् ।

नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-

नारायणाभ्यां जगतः पितृभ्याम् ॥ ११ ॥

इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारयणाष्टकम् ।

ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् ॥ १२ ॥

।। इति श्री लक्ष्मी नारायण स्तोत्रम् संपूर्णम् ।।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics