!doctype html> Stotramश्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम् (Sri Narasimhagiri Ashtottara-Shatanama) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम्

Sri Narasimhagiri Ashtottara-Shatanama

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Narasimhagiri Ashtottara-Shatanama Stotram

श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम्

श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम् हिंदी पाठ

Sri Narasimhagiri Ashtottara-Shatanama

Stotram in Hindi

ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।

ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १ ॥

शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ।

शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २ ॥

नारायणप्रवचनो नारायणपरायणः ।

नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३ ॥

दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।

श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४ ॥

मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।

मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५ ॥

निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।

निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६ ॥

वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।

वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७ ॥

शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।

शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८ ॥

अत्याश्रमाचाररतो भूतिधारणतत्परः ।

सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९ ॥

अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।

ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १० ॥

सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।

सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११ ॥

माधुर्यपूर्णचरितो मधुराकारविग्रहः ।

मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२ ॥

मधुरालापचतुरो निग्रहानुग्रहक्षमः ।

आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३ ॥

आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।

वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४ ॥

सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।

दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५ ॥

वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।

लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६ ॥

गणेशजययात्रादिप्रतिष्ठापनतत्परः ।

गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७ ॥

सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।

गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८ ॥

लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।

आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९ ॥

अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।

जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २० ॥

माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।

वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१ ॥

निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।

तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२ ॥

गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा ।

जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३ ॥

मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।

रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४ ॥

शन्दमहेशानन्दाय स्वकीयपददायकः ।

यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५ ॥

उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।

तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६ ॥

अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।

अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७ ॥

विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।

काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८ ॥

श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।

नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९ ॥

विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।

मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३० ॥

॥ इति श्री नृसिंहगिरि अष्टोत्तर-शतनाम स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics