!doctype html> Stotramश्री सुब्रह्मण्य भुजङ्ग स्त्रोत (Sri Subramanya Bhujanga) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री सुब्रह्मण्य भुजङ्ग स्त्रोत

Sri Subramanya Bhujanga

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Subramanya Bhujanga Stotram

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

श्री सुब्रह्मण्य भुजङ्ग स्त्रोत हिंदी पाठ

Sri Subramanya Bhujanga

Stotram in Hindi

सदा बालरूपाऽपि विघ्नाद्रिहंत्री

महादंतिवक्त्राऽपि पंचास्यमान्या ।

विधींद्रादिमृग्या गणेशाभिधा मे

विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥ 1 ॥

न जानामि शब्दं न जानामि चार्थं

न जानामि पद्यं न जानामि गद्यम् ।

चिदेका षडास्या हृदि द्योतते मे

मुखान्निःसरंते गिरश्चापि चित्रम् ॥ 2 ॥

मयूराधिरूढं महावाक्यगूढं

मनोहारिदेहं महच्चित्तगेहम् ।

महीदेवदेवं महावेदभावं

महादेवबालं भजे लोकपालम् ॥ 3 ॥

यदा संनिधानं गता मानवा मे

भवांभोधिपारं गतास्ते तदैव ।

इति व्यंजयन्सिंधुतीरे य आस्ते

तमीडे पवित्रं पराशक्तिपुत्रम् ॥ 4 ॥

यथाब्धेस्तरंगा लयं यांति तुंगा-

स्तथैवापदः संनिधौ सेवतां मे ।

इतीवोर्मिपंक्तीर्नृणां दर्शयंतं

सदा भावये हृत्सरोजे गुहं तम् ॥ 5 ॥

गिरौ मन्निवासे नरा येऽधिरूढा-

स्तदा पर्वते राजते तेऽधिरूढाः ।

इतीव ब्रुवन्गंधशैलाधिरूढः

स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ 6 ॥

महांभोधितीरे महापापचोरे

मुनींद्रानुकूले सुगंधाख्यशैले ।

गुहायां वसंतं स्वभासा लसंतं

जनार्तिं हरंतं श्रयामो गुहं तम् ॥ 7 ॥

लसत्स्वर्णगेहे नृणां कामदोहे

सुमस्तोमसंछन्नमाणिक्यमंचे ।

समुद्यत्सहस्रार्कतुल्यप्रकाशं

सदा भावये कार्तिकेयं सुरेशम् ॥ 8 ॥

रणद्धंसके मंजुलेऽत्यंतशोणे

मनोहारिलावण्यपीयूषपूर्णे ।

मनःषट्पदो मे भवक्लेशतप्तः

सदा मोदतां स्कंद ते पादपद्मे ॥ 9 ॥

सुवर्णाभदिव्यांबरैर्भासमानां

क्वणत्किंकिणीमेखलाशोभमानाम् ।

लसद्धेमपट्टेन विद्योतमानां

कटिं भावये स्कंद ते दीप्यमानाम् ॥ 10 ॥

पुलिंदेशकन्याघनाभोगतुंग-

स्तनालिंगनासक्तकाश्मीररागम् ।

नमस्याम्यहं तारकारे तवोरः

स्वभक्तावने सर्वदा सानुरागम् ॥ 11 ॥

विधौ क्लृप्तदंडान्स्वलीलाधृतांडा-

न्निरस्तेभशुंडांद्विषत्कालदंडान् ।

हतेंद्रारिषंडान्जगत्राणशौंडा-

न्सदा ते प्रचंडान्श्रये बाहुदंडान् ॥ 12 ॥

सदा शारदाः षण्मृगांका यदि स्युः

समुद्यंत एव स्थिताश्चेत्समंतात् ।

सदा पूर्णबिंबाः कलंकैश्च हीना-

स्तदा त्वन्मुखानां ब्रुवे स्कंद साम्यम् ॥ 13 ॥

स्फुरन्मंदहासैः सहंसानि चंच-

त्कटाक्षावलीभृंगसंघोज्ज्वलानि ।

सुधास्यंदिबिंबाधराणीशसूनो

तवालोकये षण्मुखांभोरुहाणि ॥ 14 ॥

विशालेषु कर्णांतदीर्घेष्वजस्रं

दयास्यंदिषु द्वादशस्वीक्षणेषु ।

मयीषत्कटाक्षः सकृत्पातितश्चे-

द्भवेत्ते दयाशील का नाम हानिः ॥ 15 ॥

सुतांगोद्भवो मेऽसि जीवेति षड्धा

जपन्मंत्रमीशो मुदा जिघ्रते यान् ।

जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः

किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ 16 ॥

स्फुरद्रत्नकेयूरहाराभिराम-

श्चलत्कुंडलश्रीलसद्गंडभागः ।

कटौ पीतवासाः करे चारुशक्तिः

पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ 17 ॥

इहायाहि वत्सेति हस्तान्प्रसार्या-

ह्वयत्यादराच्छंकरे मातुरंकात् ।

समुत्पत्य तातं श्रयंतं कुमारं

हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ 18 ॥

कुमारेशसूनो गुह स्कंद सेना-

पते शक्तिपाणे मयूराधिरूढ ।

पुलिंदात्मजाकांत भक्तार्तिहारिन्

प्रभो तारकारे सदा रक्ष मां त्वम् ॥ 19 ॥

प्रशांतेंद्रिये नष्टसंज्ञे विचेष्टे

कफोद्गारिवक्त्रे भयोत्कंपिगात्रे ।

प्रयाणोन्मुखे मय्यनाथे तदानीं

द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ 20 ॥

कृतांतस्य दूतेषु चंडेषु कोपा-

द्दहच्छिंद्धि भिंद्धीति मां तर्जयत्सु ।

मयूरं समारुह्य मा भैरिति त्वं

पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ 21 ॥

प्रणम्यासकृत्पादयोस्ते पतित्वा

प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।

न वक्तुं क्षमोऽहं तदानीं कृपाब्धे

न कार्यांतकाले मनागप्युपेक्षा ॥ 22 ॥

सहस्रांडभोक्ता त्वया शूरनामा

हतस्तारकः सिंहवक्त्रश्च दैत्यः ।

ममांतर्हृदिस्थं मनःक्लेशमेकं

न हंसि प्रभो किं करोमि क्व यामि ॥ 23 ॥

अहं सर्वदा दुःखभारावसन्नो

भवांदीनबंधुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा क्लृप्तबाधं

ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ 24 ॥

अपस्मारकुष्टक्षयार्शः प्रमेह-

ज्वरोन्मादगुल्मादिरोगा महांतः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं

विलोक्य क्षणात्तारकारे द्रवंते ॥ 25 ॥

दृशि स्कंदमूर्तिः श्रुतौ स्कंदकीर्ति-

र्मुखे मे पवित्रं सदा तच्चरित्रम् ।

करे तस्य कृत्यं वपुस्तस्य भृत्यं

गुहे संतु लीना ममाशेषभावाः ॥ 26 ॥

मुनीनामुताहो नृणां भक्तिभाजा-

मभीष्टप्रदाः संति सर्वत्र देवाः ।

नृणामंत्यजानामपि स्वार्थदाने

गुहाद्देवमन्यं न जाने न जाने ॥ 27 ॥

कलत्रं सुता बंधुवर्गः पशुर्वा

नरो वाथ नारी गृहे ये मदीयाः ।

यजंतो नमंतः स्तुवंतो भवंतं

स्मरंतश्च ते संतु सर्वे कुमार ॥ 28 ॥

मृगाः पक्षिणो दंशका ये च दुष्टा-

स्तथा व्याधयो बाधका ये मदंगे ।

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे

विनश्यंतु ते चूर्णितक्रौंचशैल ॥ 29 ॥

जनित्री पिता च स्वपुत्रापराधं

सहेते न किं देवसेनाधिनाथ ।

अहं चातिबालो भवान् लोकतातः

क्षमस्वापराधं समस्तं महेश ॥ 30 ॥

नमः केकिने शक्तये चापि तुभ्यं

नमश्छाग तुभ्यं नमः कुक्कुटाय ।

नमः सिंधवे सिंधुदेशाय तुभ्यं

पुनः स्कंदमूर्ते नमस्ते नमोऽस्तु ॥ 31 ॥

जयानंदभूमं जयापारधामं

जयामोघकीर्ते जयानंदमूर्ते ।

जयानंदसिंधो जयाशेषबंधो

जय त्वं सदा मुक्तिदानेशसूनो ॥ 32 ॥

भुजंगाख्यवृत्तेन क्लृप्तं स्तवं यः

पठेद्भक्तियुक्तो गुहं संप्रणम्य ।

स पुत्रान्कलत्रं धनं दीर्घमायु-

र्लभेत्स्कंदसायुज्यमंते नरः सः ॥ 33 ॥

॥ इति श्री सुब्रह्मण्य भुजङ्ग स्त्रोत सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics