!doctype html> Stotramश्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम (Sri Tripurasundari Vedasara) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम

Sri Tripurasundari Vedasara

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Sri Tripurasundari Vedasara Stotram

श्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम

श्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम हिंदी पाठ

Sri Tripurasundari Vedasara

Stotram in Hindi

कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीका

ज्योत्स्नाशुद्धावदाता शशिशिशुमकुटालंकृता ब्रह्मपत्नी ।

साहित्यांभोजभृङ्गी कविकुलविनुता सात्विकीं वाग्विभूतिं

देयान्मे शुभ्रवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥ १ ॥

एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासा विमुक्तैः

सानन्दं ध्यानयोगाद्बिसगुणसदृशी दृश्यते चित्तमध्ये ।

या देवी हंसरूपा भवभटहरणं साधकानां विधत्ते

सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥ २ ॥

ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य

स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वदा व्याप्य विश्वम् ।

संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा

सा देवी कर्मबन्धं मम भवकरणं नाशयित्वादिशक्तिः ॥ ३ ॥

लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते

सौवर्णे शैलशृङ्गे सुरगणरचिते तत्त्वसोपानयुक्ते ।

मन्त्रिण्या मेचकाङ्ग्या कुचभरनतया कोलमुख्या च सार्धं

सम्राज्ञी सा मदीयं मदगजगमना दीर्घमायुस्तनोतु ॥ ४ ॥

ह्रींकाराम्भोजभृङ्गी हयमुखविनुता हानिवृध्यादिहीना

हंसोऽहम् मन्त्रराज्ञी हरिहयवरदा हादिमन्त्राक्षरूपा ।

हस्ते चिन्मुद्रिकाद्या हतबहुदनुजा हस्तिकृत्तिप्रिया मे

हार्दं शोकातिरेकं शमयतु ललिताधीश्वरी पाशहस्ता ॥ ५ ॥

हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता

क्षीरोदन्वत्सुकन्या करिवरविनुता नित्यपुष्टाऽब्जगेहा ।

पद्माक्षी हेमवर्णा मुररिपुदयिता शेवधिस्संपदां या

सा मे दारिद्र्यदोषं दमयतु करुणादृष्टिपातैरजस्रम् ॥ ६ ॥

सच्चिद्ब्रह्मस्वरूपां सकलगुणयुतां निर्गुणां निर्विकारां

रागद्वेषादिहन्त्रीं रविशशिनयनां राज्यदानप्रवीणाम् ।

चत्वारिंशत्त्रिकोणे चतुरधिकसमे चक्रराजे लसन्तीं

कामाक्षीं कामितानां वितरणचतुरां चेतसा भावयामि ॥ ७ ॥

कन्दर्पे शान्तदर्पे त्रिनयनज्योतिषा देववृन्दैः

साशङ्कं साश्रुपातं सविनयकरुणं याचिता कामपत्न्या ।

या देवी दृष्टिपातैः पुनरपि मदनं जीवयामास सद्यः

सा नित्यं रोगशान्त्यै प्रभवतु ललिताधीश्वरी चित्प्रकाशा ॥ ८ ॥

हव्यैः कव्यैश्च सर्वैर्श्रुतिचयविहितैः कर्मभिः कर्मशीलाः

ध्यानाद्यैरष्टभिश्च प्रशमितकलुषा योगिनः पर्णभक्षाः ।

यामेवानेकरूपां प्रतिदिनमवनौ संश्रयन्ते विधिज्ञा

सा मे मोहान्धकारं बहुभवजनितं नाशयत्वादिमाता ॥ ९ ॥

लक्ष्या मूलत्रिकोणे गुरुवरकरुणालेशतः कामपीठे

यस्यां विश्वं समस्तं बहुतरविततं जायते कुण्डलिन्या ।

यस्या शक्तिप्ररोहादविरलममृतं विन्दते योगिवृन्दं

तां वन्दे नादरूपां प्रणवपदमयीं प्राणिनां प्राणधात्रीम् ॥ १० ॥

ह्रींकाराम्बोधिलक्ष्मीं हिमगिरितनयां ईश्वराणां

ह्रींमन्त्राराध्यदेवीं श्रुतिशतशिखरैर्मृग्यमाणां मृगाक्षीम् ।

ह्रींमन्त्रान्तैस्त्रिकूटैः स्थिरतरमहिभिर्धार्यमाणां ज्वलन्तीं

ह्रीं ह्रीं ह्रीमित्यजस्रं हृदयसरसिजे भावयेऽहं भवानीम् ॥ ११ ॥

सर्वेषां ध्यान मथ्रातः सविथुरु दरगं चोदयन्थि मनीषां,

सविथ्री ततः पदर्त्ठ ससि युथ मकुट पञ्च शीर्षा त्रिनेथ्रा ।

हस्थाग्रै शङ्ख चक्रध्य अखिल जन पर्थ्रण दक्षयुधानां,

भिभ्रणा वृन्द मम्ब विसदयथु मथिं ममकीनां महेसि ॥ १२ ॥

कर्त्री लोकस्य लीलाविलसितविधिना कारयित्री क्रियाणां

भर्त्री स्वानुप्रवेशाद्वियदनिलमुखैः पञ्चभूतैः स्वसृष्टैः ।

हर्त्री स्वेनैवधाम्ना पुनरपि वलये कालरूपं दधाना

हन्यादामूलमस्मत्कलुषभरमुमा भुक्तिमुक्तिप्रदात्री ॥ १३ ॥

लक्ष्या या पुण्यजालैः गुरुवरचरणाम्भोजसेवाविशेषात्

दृश्या स्वान्ते सुधीभिर्दरदलितमहापद्मकोशेनतुल्ये ।

लक्षं जप्त्वापि यस्या मनुवरमणिमादिसिद्धिमन्तो महान्तः

सा नित्यं मामकीने हृदयसरसिजे वासमङ्गीकरोतु ॥ १४ ॥

ह्रीं श्रीं ऐं मन्त्ररूपा हरिहरविनुताऽगस्त्यपत्नीप्रतिष्ठा

हादिकाद्यर्णतत्त्वा सुरपतिवरदा कामराजप्रतिष्ठा ।

दुष्टानां दानवानां मनभरहरणा दुःखहन्त्री बुधानां

सम्राज्ञी चक्रराज्ञी प्रदिशतु कुशलं मह्यमोंकाररूपा ॥ १५ ॥

श्रीमन्त्रार्थस्वरूपा श्रितजनदुरितध्वान्तहन्त्री शरण्या

श्रौतस्मार्तक्रियाणामविकलफलदा फालनेत्रस्य धारा ।

श्रीचक्रान्तर्निषण्णा गुहवरजननी दुष्टहन्त्री वरेण्या

श्रीमत्सिंहासनेशी प्रदिशतु विपुलां कीर्तिमानन्दरूप ॥ १६ ॥

॥ इति श्रीत्रिपुर सुन्दरी वेदसार स्तोत्रम सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics