!doctype html> Stotramश्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् (Srilakshmi Narsingh Dwadasanama) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्

Srilakshmi Narsingh Dwadasanama

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Srilakshmi Narsingh Dwadasanama Stotram

श्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्

श्रीलक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् हिंदी पाठ

Srilakshmi Narsingh Dwadasanama Stotram in Hindi

अस्य श्रीनृसिंह द्वादशनाम स्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः,

अनुष्टुप् छन्दः श्रीलक्ष्मीनृसिंहो देवता श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।

तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १ ॥

पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।

सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २ ॥

ततः प्रह्लादवरदो दशमोऽनन्तहस्तकः । [नवं]

एकादशो महारुद्रः द्वादशो दारुणस्तथा ॥ ३ ॥

द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।

मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥ ४ ॥

क्षयापस्मार कुष्ठादि तापज्वर निवारणम् ।

राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५ ॥

गिरिगह्वारकारण्ये व्याघ्रचोरामयादिषु ।

रणे च मरणे चैव शमदं परमं शुभम् ॥ ६ ॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।

आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥ ७ ॥

।। इति श्री नृसिंह द्वादशनाम स्तोत्रम् सम्पूर्णम् ।।

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics