!doctype html> Stotramउज्ज्वल वेंकट नाथ स्तोत्र (Ujjwala Venkata Natha) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramउज्ज्वल वेंकट नाथ स्तोत्र

Ujjwala Venkata Natha

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Ujjwala Venkata Natha Stotram

उज्ज्वल वेंकट नाथ स्तोत्र

उज्ज्वल वेंकट नाथ स्तोत्र हिंदी पाठ

(

Ujjwala Venkata Natha

Stotram in Hindi)

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे

शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।

निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां

चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १ ॥

तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ

श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।

धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो

बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २ ॥

ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं

श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।

द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गश‍ृङ्गाधिरूढं

दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३ ॥

अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः

सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।

रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं

धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४ ॥

अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।

जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५ ॥

ज्वलितनानानागश‍ृङ्गगमणिगणोदितसुपरभागक

घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम

सुजनतातातायिताखिलहितसुशीतलगुणगणालय

विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ।

सकलपापापारभीकरघनरवाकरसुदर सादरम्

अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर

तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्

इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ६ ॥

नगधराराराधने तव वृषगिरीश्वर य इह सादर-

रचितनानानामकौसुमतरुलसन्निजवनविभागज-

सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः

अतिरयायायासदायकभवभयानकशठरिपोः किल ।

निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष

जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः

इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे

इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ७ ॥

गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर

विदधते ते ते पदार्चनमितरथा गतिविरहिता इति

मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-

चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ।

विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-

नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च

तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-

शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥ ८ ॥

ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर

करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर

सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु

मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ।

मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम

मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश

परम याया या दया तव निरवधिं मयि झटिति तामयि

सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥ ९ ॥

घटितपापापारदुर्भटपटलदुर्घटनिधनकारण

रणधरारारात्पलायननिजनिदर्शितबहुबलायन

दरवरारारावनाशन मधुविनाशन मम मनोधन

रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ।

सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि

सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि

प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि

तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥ १० ॥

उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः

श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥ ११ ॥

॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics