!doctype html> Stotramश्री वेङ्कटेश्वर शतनामावलीस्तोत्रम् (Venkateswara Ashtottara Shatanama) Lyrics — Vrinda Ke Geet
🪷
Ram स्तोत्रम्

Stotramश्री वेङ्कटेश्वर शतनामावलीस्तोत्रम्

Venkateswara Ashtottara Shatanama

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Venkateswara Ashtottara Shatanama Stotram

श्री वेङ्कटेश्वर शतनामावली

स्तोत्रम्

श्री वेङ्कटेश्वर शतनामावली

स्तोत्रम्

हिंदी पाठ

Venkateswara Ashtottara Shatanama

Stotram in Hindi

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः

अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः

प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।

अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १ ॥

श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।

गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २ ॥

सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।

चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३ ॥

धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।

चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४ ॥

निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।

निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५ ॥

गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।

अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६ ॥

अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।

आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७ ॥

दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।

त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८ ॥

शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।

नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९ ॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।

चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १० ॥

देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।

कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११ ॥

वनमालीपद्मनाभ मृगयासक्त मानसः ।

अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२ ॥

घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।

सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३ ॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।

परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४ ॥

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।

एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५ ॥

पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् ।

॥ इति श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
ram
Type
strotram
Published
21 जून 2026
Tags
ram strotram

Download Lyrics