!doctype html> Stotramभैरव तांण्डव स्तोत्र (Kaal Bhairav Tandav) Lyrics — Vrinda Ke Geet
🪷
Shiv स्तोत्रम्

Stotramभैरव तांण्डव स्तोत्र

Kaal Bhairav Tandav

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Kaal Bhairav Tandav Stotram

भैरव तांण्डव स्तोत्र

भैरव तांण्डव स्तोत्र हिंदी पाठ

Kaal Bhairav Tandav

Stotram in Hindi

अथ श्रीभैरवताण्डवस्तोत्रम् ।

ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं

लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।

डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं

भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १ ॥

चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं

किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।

करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २ ॥

कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं

कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् ।

गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३ ॥

कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं

वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।

तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४ ॥

ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं

सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।

वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ५ ॥

सकलायुधभारं विजनविहारं सुश्रविशारं भ्रष्टमलं

शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।

पदनूपूरसिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्टहरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ६ ॥

मर्दयितुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं

रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।

कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्धीकं प्रेमभरं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ७ ॥

परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं

बहुमद्यपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।

कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं वीरेशं

भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ८ ॥

॥ इति श्रीभैरवताण्डवस्तोत्रं सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
shiv
Type
strotram
Published
21 जून 2026
Tags
shiv strotram

Download Lyrics