!doctype html> Stotraमातंगी हृदय स्तोत्र (Matangi Hridaya) Lyrics — Vrinda Ke Geet
🪷
Shiv स्तोत्रम्

Stotraमातंगी हृदय स्तोत्र

Matangi Hridaya

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Matangi Hridaya Stotra

मातंगी हृदय स्तोत्र

एकदा कौतुकाविष्टा भैरवं भूतसेवितम्

भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ १ ॥

श्री भैरव्युवाच ।

भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन ।

अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ २ ॥

केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।

सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ ३ ॥

श्री भैरव उवाच ।

शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये

कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ ४ ॥

पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।

विद्यैश्वर्यसुखाव्याप्तिमङ्गलप्रदमुत्तमम् ॥ ५ ॥

मातङ्ग्या हृदयं स्तोत्रं दुःखदारिद्र्यभञ्जनम् ।

मङ्गलं मङ्गलानां च अस्ति सर्वसुखप्रदम् ॥ ६ ॥

ओं अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः –

विराट् छन्दः – श्री मातङ्गी देवता – ह्रीं बीजं – क्लीं शक्तिः – ह्रूं कीलकं ।

सर्ववाञ्छितार्थसिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः ।

दक्षिणामूर्तिऋषये नमः शिरसि ।

विराट्छन्दसे नमः मुखे ।

मातङ्गीदेवतायै नमः हृदि ।

ह्रीं बीजाय नमः गुह्ये ।

हूं शक्तये नमः पादयोः ।

क्लीं कीलकाय नमः नाभौ ।

विनियोगाय नमः सर्वाङ्गे ।

इति ऋष्यादिन्यासः ॥

करन्यासः ।

ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।

ओं क्लीं तर्जनीभ्यां नमः ।

ओं ह्रूं मध्यमाभ्यां नमः ।

ओं ह्रीं अनामिकाभ्यां नमः ।

ओं क्लीं कनिष्ठिकाभ्यां नमः ।

ओं ह्रूं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ओं ह्रीं हृदयाय नमः ।

ओं क्लीं शिरसे स्वाहा ।

ओं ह्रूं शिखायै वषट् ।

ओं ह्रीं नेत्रत्रयाय वौषट् ।

ओं क्लीं कवचाय हुम् ।

ओं ह्रूं अस्त्राय फट् ।

ध्यानम् ॥

श्यामां शुभ्रां सुफालां त्रिकमलनयनां रत्नसिंहासनस्थां

भक्ताभीष्टप्रदात्रीं सुरनीकरकरासेव्यकञ्जाङ्घ्रियुग्माम् ।

नीलाम्भोजातकान्तिं निशिचरनिकरारण्यदावाग्निरूपां

मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ॥ ७ ॥

नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां

परश्रेयोदायै कमलचरणध्यानमनसां ।

सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणैः

दयार्द्रायै देव्यै दुरितदलनोद्दण्ड मनसे ॥ ८ ॥

परं मातस्ते यो जपति मनुमेवोग्रहृदयः

कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।

अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता

नटी चाद्या वाणी नटन रसनायां च फलिता ॥ ९ ॥

तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं

सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।

कदम्बानां माल्यैरपि शिरसि युञ्जन्ति यदि ये

भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १० ॥

सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये

सहस्रं नामोक्त्वा तदपि च तवाङ्गे मनुमितं ।

पृथङ्नाम्ना तेनायुतकलितमर्चन्ति प्रसृते

सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११ ॥

तव प्रीत्यैर्मातर्ददति बलिमादाय सलिलं

समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।

सुपुण्यायै स्वान्तस्तव चरणप्रेमैकरसिकाः

अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ १२ ॥

लसल्लोलश्रोत्राभरणकिरणक्रान्तिललितं

मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितं ।

मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं

रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३ ॥

परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसाम्-

अयं सेव्यः सुद्योऽभिमतफलदश्चातिललितः ।

नरा ये शृण्वन्ति स्तवमपि पठन्तीममनुनिशं

न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४ ॥

धनार्थी धनमाप्नोति दारार्थी सुन्दरीः प्रियाः ।

सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्तनात् ॥ १५ ॥

विद्यार्थी लभते विद्यां विविधां विभवप्रदां ।

जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ १६ ॥

नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितं ।

कुबेरसमसम्पत्तिः स भवेद्धृदयं पठन् ॥ १७ ॥

किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।

मातङ्गीहृदयस्तोत्रपठनात्सर्वमाप्नुयात् ॥ १८ ॥

॥ इति श्री दक्षिणामूर्तिसंहितायां मातंगी हृदय स्तोत्र सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
shiv
Type
strotram
Published
21 जून 2026
Tags
shiv strotram

Download Lyrics