!doctype html> Stotramउपमन्यु कृत शिव स्तोत्रम् (Upamanyu Krutha Shiva) Lyrics — Vrinda Ke Geet
🪷
Shiv स्तोत्रम्

Stotramउपमन्यु कृत शिव स्तोत्रम्

Upamanyu Krutha Shiva

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Upamanyu Krutha Shiva Stotram

उपमन्यु कृत शिव स्तोत्रम्

उपमन्यु कृत शिव स्तोत्रम् हिंदी पाठ

Upamanyu Krutha Shiva

Stotram in Hindi

जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन ।

मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे ॥ १ ॥

सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।

शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ २ ॥

महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे ।

दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ ३ ॥

न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।

कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥ ४ ॥

त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वाक्तुमीश सा ।

मधुरं हि पयः स्वभावतो ननु कीदृक् सितशर्करयान्वितम् ॥ ५ ॥

सविषोप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः ।

भव एव भवान्तकस्सतां समदृष्टिर्विषमेक्षणॊपि सन् ॥ ६ ॥

अपि शूलधरो निरामयो दृढवैराग्यधरोऽपि रागवान् ।

अपि भैक्षचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥ ७ ॥

वितरत्यभिवाञ्छितं दृशा परिदृष्टः किल कल्पपादपः ।

हृदये स्मृत एव धीयते नमतेऽभिष्टफलप्रदो भवान् ॥ ८ ॥

सहसैव भुजंगपाशवान् विनिगृह्णाति न यावदन्तकः ।

अभयं कुत तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥ ९ ॥

सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतं ।

अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥ १० ॥

मुनयो बहवोऽत्र धन्यतां गमिता स्वाभिमतार्थदर्शिनः ।

करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥ ११ ॥

प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।

विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ १२ ॥

बहवो भवतानुकंपिताः किमितीशान न मानुकंपसे ।

दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥ १३ ॥

अशुचिर्यदिमाऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।

उत शाठ्यमसाधुसंगिनं विषलक्ष्मासि न किं द्विजिह्वधृक् ॥ १४ ॥

क्व दृशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।

क्वनु तिष्ठसि रक्षरक्षमामयि शम्भो शरणागतोऽस्मि ते ॥ १५ ॥

विलुठाम्यवनौ किमाकुलः किमुरोहन्मि शिरः छिनद्मि वा ।

किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥ १६ ॥

शिव सर्वग शिव शर्मद प्रणतो देव दयां कुरुष्व मे ।

नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥ १७ ॥

शरणं तरुणेन्दुशेखर शरणं मे गिरिराजकन्यका ।

शरणं पुनरेव तावुभौ शरणं नान्यदवैमि दैवतम् ॥ १८ ॥

उपमन्युकृतं स्तवोत्तमं जपतश्शंभुसमीपवर्तिः ।

अभिवाञ्छितभाग्यसंपदः परमायुः प्रददाति शंकरः ॥ १९ ॥

उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।

शिवलोकमवाप्य सोऽचिरात् सह तेनैव शेवेन मोदते ॥ २० ॥

॥ इति उपमन्यु कृत शिव स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
shiv
Type
strotram
Published
21 जून 2026
Tags
shiv strotram

Download Lyrics