!doctype html> Stotramश्री हनुमत् भुजङ्ग स्तोत्रम् (Hanuman Bhujanga) Lyrics — Vrinda Ke Geet
🪷
Hanuman स्तोत्रम्

Stotramश्री हनुमत् भुजङ्ग स्तोत्रम्

Hanuman Bhujanga

Published: 21 जून 2026

Watch
Ring Bell
Light Diya
Text Size 100%

हिंदी

Hanuman Bhujanga Stotram

श्री हनुमत् भुजङ्ग स्तोत्रम्

श्री हनुमत् भुजङ्ग स्तोत्रम् हिंदी पाठ

Hanuman Bhujanga

Stotram in Hindi

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा-

झणत्कारनादप्रवृद्धाट्टहासम् ।

भजे वायुसूनुं भजे रामदूतं भजे

वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं

जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।

तृणीभूतहेतिं रणोद्यद्विभूतिं भजे

वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं भजे

बालभानुप्रभाचारुहासम् ।

भजे चन्द्रिकाकुन्दमन्दारभासं भजे

सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं भजे

तोषितानेकगीर्वाणपक्षम् ।

भजे घोरसंग्रामसीमाहताक्षं भजे

रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं

घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।

वियद्व्याप्तकेशं भुजाश्लेषिताशं

जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं

कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।

महासिंहनादाद्विशीर्णत्रिलोकं भजे

चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे

सरोषं समारोप्यसौमित्रिमंसे ।

घनानां खगानां सुराणां च मार्गे

नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं

भुजाग्रेण निर्धूतकालोग्रदण्डम् ।

पदाघातभीताहिजाताऽधिवासं

रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां

महाव्याधिपीडां महाधिप्रपीडाम् ।

हरत्याशु ते पादपद्मानुरक्तिः

नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे

सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।

क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः त्वया

वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो

विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।

निरातङ्कमाविश्य लङ्कां विशङ्को

भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं

नमस्ते महावज्रदेहाय तुभ्यम् ।

नमस्ते पराभूतसूर्याय तुभ्यं नमस्ते

कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं

नमस्ते सदा वायुपुत्राय तुभ्यम् ।

नमस्ते सदा पिङ्गलाक्षाय तुभ्यं

नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते

प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।

पठन् भक्तियुक्तः प्रमुक्ताघजालः

नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

॥ इति श्री हनुमत् भुजङ्ग स्तोत्रम् सम्पूर्णम् ॥

🕉️
🌸 play & learn 🌸

Bhakti Mela (भक्ति मेला)

Solve beautiful jigsaw puzzles, play devotional quizzes, and build your daily streak!

🎪 Enter Bhakti Mela ➔

Song Details

Category
hanuman
Type
strotram
Published
21 जून 2026
Tags
hanuman strotram

Download Lyrics